________________
तृतीयः परिच्छेदः
अथाद्दीपनविभावा:उद्दीपनविभावास्ते
रसमुद्दीपयन्ति
ये ॥ १३१ ।।
आलम्बनस्य चेष्टाद्या देशकालादयस्तथा।.
चेष्टाया इत्याद्यशब्दाद्रूपभाषणादयः। कालादीत्यादिशब्दाच्चन्द्रचन्दनकोकिलालापभ्रमरमतारादयः। तत्र चन्द्रोदयो यथा मम
'करमुदयमहीधरस्तनाग्रे गलिततमःपटलांशुके निवेश्य । . विकसितकुमुदेक्षणं विचुम्बत्ययममरेशदिशो मुखं सुधांशुः ॥'
"मृगयाऽक्षो दिवास्वप्नः परिवाद: स्त्रियो मदः ।
तोर्यत्रिकं यथाऽटया च कामजो दशको गणः ॥” (७-४७ )। कोपजानि अष्टविधानि, तानि यथा
"पैशुन्यं साहसं द्रोह ईयाऽसूयाऽर्थ दूषणम् ।
वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्ट कः ॥” ( म. स्मृ. ७.४८) उद्दीपनविभावान् लक्षयति-उद्दीपनविभावा इति । ये = विभावाः, रसं = शृङ्गारादिकम्, उद्दीपयन्ति = उद्दीप्तं कुर्वन्ति, ते उद्दीपनविभावाः ॥ १३१॥
उद्दीपनविभागनिर्दिशति-मालम्बनस्येति। आलम्बनस्य = नायकादेः, चेष्टादयः = नेत्रविक्षेपादयः, तथा देशकालादयः =स्थानसमयादयः । चेष्टाया इत्यत्र आधशब्दादूपभूषणादयः, देशकालादय इत्यत्राऽऽदिशब्दात् चन्द्रचन्दनकोकिलालापभ्रमरशङ्कारादयो यथायथं ग्राह्याः ॥ १३१ ।।
चनोदयो यथा करमिति । अयम् = एषः, सुधांऽशुः = चन्द्रः, नायकः । गलिततमःपटलांऽशुके = गलितम् ( अपगतम्, निजकिरणेनेति शेषः) तमःपटलम् ( अन्धकारसमूहः) एव अंशुकम् ( वस्त्रम् ) यस्मात, तस्मिन् । उदयमहीधरस्तनाग्रेउदयमहीधरः ( उदयपर्वतः ) एव स्तनः (कुचः ) तस्य अग्रे ( ऊर्श्वभागे चूचुके ); कर किरणं, हस्तं च, निवेश्य = निधाय, विकसितकुमुदेक्षणं = विकसितं ( प्रफुल्लम् )
उहीपन विभाव-जों रसको उद्दीप्त करते हैं उन्हें “उद्दीपन विभाव" कहते हैं ॥ ३१॥
वे-आलम्बन ( नायक आदि ) की चेष्टा आदि, आदि शब्दसे रूप भाषण आदि लिये जाने चाहिए, और देश काल आदि, यहाँ भी आदि शब्दसे चन्द्र, चन्दन, कोकिलका आलाप और भ्रमरमङ्कार आदिको लेना चाहिए।
चन्द्रोदय जैसे प्रन्थकारका ये चन्द्र अन्धकारसमूहरूप वस्त्रसे रहित उदयपर्वतरूप स्तनके अग्र भागमें कर (किरण अथवा हाथ ) को रखकर विकसितः