________________
१८६ .
साहित्यदर्पणे
मध्यव्रीडानि मध्यायाः स्रंसमानत्रपाणि तु ॥ १२६ ..
अन्यस्त्रियाः प्रगल्भायास्तथा स्युवारयोषितः । दिङमात्रं यथा
'अन्तिकगतमपि मामियमवलोकयन्तीव हन्त ! दृष्टवाऽपि । सरसनखक्षतलक्षितमाविष्कुरुते
भुजामूलम् ।। तथा
लेख्यप्रस्थापनैः स्निग्धैर्वीक्षितैमृदुभाषितैः ॥ १२७ ।। चेष्टितानि, मध्यव्रीडानि = मध्यमलज्जायुक्तानि भवति। अन्यस्त्रियाः = अपरललनायाः, प्रगल्भाया: नायिकायाः, तथा वारयोषितश्च वेश्यायाश्च, चेष्टितानि-चेष्टाः, संसमानत्रपाणि = स्रंसमाना ( अवस्रंसमाना ) त्रपा ( लज्जा ) येषु तानि, लज्जारहितानीति भावः । स्युः= भवेयुः ।। १२६ ॥
दिग्दर्शनं यथा-प्रन्तिकगतमिति । नायकस्य मित्रं प्रति उक्ति रियम् । हन्तेति हर्षद्योतकमव्ययम् । इयं = मदीया प्रिया, अन्तिकगतम् अपि = निकट प्राप्तम् अपि, मां = नायक, दृष्ट्वा अपि = विलोक्य अपि, अलोकयन्ती अपश्यन्ती इव, अभिनीयेति शेषः । सरसनखक्षतलक्षितं = सरसम् (आम् ) यत् नखक्षतं ( नख रक्षतम् ) तेन लक्षितं (चिह्नितम् ). भुलामूलं = बाहुमूलम्, भुजतीति भुजा, "भुजो कौटिल्ये" इति धातो: "इगुपधज्ञाप्रीकिरः कः" इति कप्रत्यये टाप, "अथो भुजा। द्वयोर्बाही करे" इति मेदिनी। आविष्कुरुते प्रकाशयति, कुन्तलसंयमव्यपदेशेनेति भावः । नायक लक्ष्यीकृत्य बाहुमूलप्रदर्शनं नायिकाया अनुरागेङ्गितं द्योतयति । आर्या वृत्तम् ।
नार्या भावाऽभिव्यक्तिसाधनानि प्रदर्शयति-लेल्यप्रस्थापनरिति । लेख्यप्रस्थापनः = पस्त्रप्रेषणः, स्निग्धः = स्नेहपूर्णः, वीक्षितः = अबलोकनः, मृदुभाषितः= कोमलभाषणः, दूतीसंप्रेषणः = सन्देशहराप्रस्थापनश्च, नार्याः = नायिकायाः, भावाऽभिव्यक्तिः = अभिप्रायप्रकाशनम्, इष्यते = इष्टा भवति । तत्र लेख्यप्रस्थापनस्योदाहरणं श्रीमद्भागवते रुक्मिण्याः कृष्णस्य समीपे ब्राह्मणद्वारा स्फुटम् । अन्यन्मृग्यम् ।। १२७ ।। और मध्या नायिकाकी कम लज्जासे युक्त होती हैं एवम् ।। १२६ ।। ___ अन्य नायिका जैसे प्रगल्भा और वेश्या उनकी चेष्टाएं लज्जासे रहित होती है।
नायिकाकी चेष्टाओंका दिग्दर्शन, जैसे ग्रन्थकार अपना पद्य देते है-कोई नायक मित्रको कहता है-यह ( नायिका ) मेरे निकटवर्ती होनेपर भी नहीं देखा-सा भाव दिखाकर ताजे नखक्षतसे चिह्नित अपने बाहुमूलको प्रकाशित करती हैं।
तथा-पत्रप्रेषणोंसे, स्नेहपूर्ण अवलोकनोंसे, कोमल भाषणोंसे ।। १२७ ।।