SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः क्षुभ्यन्ति ! प्रसभमहो ! विनापि हेतोर्लीलाभिः किमु सति कारणे तरुण्यः ।।' अथ केलि: बिहारे सह कान्तेन क्रीडितं केलिरुच्यते ॥ ११० ॥ यथा- ❤ १८१ 'व्यपोहितुं लोचनतो मुखानिलेर पारयन्तं किल पुष्पजं रजः । पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीवरस्तनी ॥' अथ मुग्धाकन्ययोरनुरागेङ्गितानि - दृष्ट्वा दशयति व्रीडां सम्मुखं नैव पश्यति । प्राश्वर्यम् । तथा हि तरुण्यः युवतयः, हेतोविनाऽपि कारणं विनाऽपि, लीलाभिः =शृङ्गारपेष्टाभिः प्रसभ = हठात् "प्रततम्" इति पाठान्तरे अतिशयं यथा तथेत्यर्थः । क्षुभ्यन्ति= चलन्ति कारणो सतितो विद्यमाने किमु = किं वक्तव्यम् । अत्र दयितस्य अग्रे नायिकाया भयसंभ्रमाच्चकितं नामालङ्कारः प्रहर्षिणी वृत्तम् । शिशुपालवधस्थं पद्यमिदम् । foot - बिहार इति । कान्तेन = प्रियेण सह, विहारे = रमणे, क्रीडितं = क्रीडनं, नायिकाया इति शेषः । केलिरुच्यते ॥ ११० ॥ केलिमुदाहरति - व्यपोहितुमिति । किरातार्जुनीयस्थं पद्यमिदम् । उन्नतपीवररेशमी उन्नती ( उच्ची ) पीवरी ( पुष्टी ) स्तनो (कुची ) यस्याः सा एतादृशी, काचित् = अनिर्दिष्टनामधेया नायिका, उन्मनाः = उत्कण्ठिता सती, रमणाऽर्थमिति शेषः । मुखाऽनिलः वदनवातः, लोचनतः = स्वनेत्रात्, पुष्पजं = कुसुमजनितं रजः = रागं व्यपोहितुं निरसितुम्, अपारयन्तम् = अशक्नुवन्तं प्रियं = वल्लमम्, उरसि = पक्ष:स्थले, पयोधरेण = कुचेन, जघान = ताडितवती । अत्र कान्तेन सह विहारे नायिकाक्रीडावर्णनात् केलिर्नामालङ्कारः । वंशस्थं वृत्तम् ॥ ११० ॥ 1 मुग्धःकन्यकयोर्नायिकयोः सामान्यान्यनुरागेङ्गितानि उद्दिशति बृष्ट्वेति । प्रिये = वल्लभे, अनुरागिणी = अनुरागयुक्ता, बाला = तरुणी, मुग्धा कन्यका चेति भावः । दृष्ट्वा = विलोक्य, प्रियमिति शेषः, "दृष्टेति पाठान्तरे कान्तेनाऽवलोकिता सतीत्यर्थः । व्रीडां = लज्जां दर्शयति, सम्मुखम् = अभिमुखं प्रियस्येति शेषः । नैव पश्यति, लज्ज हमें ठोकर लगने से अतिशय भयको प्राप्त हुई युवती स्त्रियाँ विना कारणके भी विलासपूर्वक अत्यन्त चञ्चल हो जाती हैं, कारणके रहनेपर फिर क्या कहना है ? केलि - वनविहार में प्रियके साथ क्रीडाको "केलि” कहते हैं ॥ ११० ॥ उ०- उन्नत और पुष्ट स्तनोंसे युक्त रमणीने उत्कण्ठित होकर अपने नेत्रमें पड़े हुए फूल परागको मुखकी हवासे नहीं हटा सकनेवाले प्रियको उसकी छातीमें स्तनसे घाटन किया। मुग्धा और कन्यानोंकी अनुरागचेष्टाएँ- मुग्धा और कन्या प्रियको
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy