SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ १८२ साहित्यदर्पणे "IT प्रच्छन्नं वा भ्रमन्तं वातिक्रान्तं पश्यति प्रियम् ॥ १११ ।। बहुधा पृच्छयमानापि मन्दमन्दमधामुखी । सगद्गदखरं किश्चिन् प्रियं प्रायेण भाषते ।। ११२ ।। अन्यः प्रवर्तितां शश्वत्सावधाना च तत्कथाम् । शृणोत्यन्यत्र दत्ताधी प्रिये बालानुरागिणी ।। ११३ ।। अथ सकलानामपि नायिकानामनुरागेषितानि चिराय सविधे स्थानं प्रियस्य बहु मन्यते । विलोचनपथं चास्य न गच्छत्यनलङ कृता ।। ११४ !! येति भावः । प्रच्छन्न = मित्यादिव्यवहितं, भ्रमन्तंभ्रमणं कुर्वन्तम्, अतिक्रान्तं वा = दूरे गतं वा, प्रियं = वल्लभं, पश्यति = अवलोकयति ॥ १११॥ बहुधा = बहुप्रकारः, पृच्छयमानाऽपि = अनुयुज्यमानाऽपि, बालेति शेषः । मन्दमन्दं = शनैः शनैः, सगद्गदस्थर गद्गद्स्वरसहितं यथा तथा, प्रायेण = अनेकशः, प्रियं = बल्लभं, किञ्चित् = स्तोकं, भाषते - ब्रूते ॥ ११२ ।। .. साऽवधाना = एकाऽग्रमानसा, अन्यत्र = स्थानान्तरे, दत्ताक्षी = दत्तनयना सती, अन्यः = अपरंर्जनः, प्रवर्तिता = प्रचालितां तत्कथा = प्रियकथां, शश्वत् = सर्वदा, शृणोति = आकर्णयति ।। ११३॥ .. सकलानामपि समस्तानामपि, नायिकानां सामान्यतोऽनुरागेङ्गितानि सूचयतिचिरायेति । अनुरक्ता = अनुरागयुक्ता, नितम्बिनी = सुन्दरी, प्रियस्य = वल्लभस्य, सविधे = समीपे, स्थानं = स्थिति, बहु = अधिकं यथा तथा, मन्यते = अवबुध्यति । अनलकृता = अभूषिता सती, अस्य = प्रियस्य, विलोचनपथं = दृष्टिमार्ग, न गच्छति ॥ ११४॥ देखकर लज्जा दिखाती है, संमुख होकर नहीं देखती है, दीवार आदिसे व्यवहित, घूमते हुए, प्रियको देखती रहती है ।। १११ ।। अकसर प्रियके बारंबार पूछनेपर भी अधोमुख होकर गद्गदस्वरके साथ थोड़ा बोलती है ॥ ११२॥ ___अनुराग करनेवाली वह, प्रियके विषयमें दूस से की गई वार्ताको दूसरी ओर नेत्रोंको लगाकर सुनती रहती है ।। ११३ ॥ अब सब नायिकाओंकी अनुराग-चेष्टाओंको बतलाते हैं-बहुत समयतक प्रियके पास रहना पसन्द करती है। अलङ्कार किये बिना प्रियके पास नहीं जाती है ॥११४॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy