SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ • १७८ साहित्यदर्पणे निद्रां वाञ्छति, न प्रयच्छति पुनर्दग्धो विधिस्तामपि ॥' अज्ञानादिव या पृच्छा प्रतीतस्यापि वस्तुनः । वल्लभस्य पुरः प्रोक्तं मौग्ध्यं तत्तच्चवेदिभिः ।। १०७ ॥ अथ मौग्ध्यम् यथा 'के मारते ? क्व वा ग्रामे ? सन्ति केन प्ररोपिताः ? | नाथ! मत्कङ्कणन्यस्तं येषां मुक्ताफलं फलम् ॥' अथ विक्षेप: भूषाणामर्धरचना मिथ्या विष्वगवेक्षणम् । रहस्याख्यानमीषश्च विक्षेपो दयितान्तिकं ।। १०८ ॥ कान्तस्य, संगमं समागम, काङ्क्षितवती = दृष्टवती, सती, निद्रां = सुप्ति, वाञ्छति= इच्छति परं किन्तु, दग्धः = हतकः, विधिः भाग्यं ताम् अपि = निद्राम् अपि न प्रयच्छति = नो ददाति । अत्र स्मरावेगेन नायिकाया निःश्व पनादिचेष्टित वर्णनात् तपनं नामालङ्कारः । शार्दूलविक्रीडितं वृत्तम् ।। १०६ । मौग्ध्यं लक्षयति- प्रज्ञानादिवेति । वल्लभस्य = कान्तस्य, पुरः = अग्रे, प्रतीतस्य अपि = ज्ञातस्य अपि वस्तुनः = पदार्थस्य, अज्ञानात् इव = अबोधात् इव, या पृच्छा = प्रश्नः, तत्ववेदिभिः = नायिकाऽलङ्कारस्वरूपज्ञातृभिः, तत् मौख्यं प्रोक्तम् = अभिहितम् ॥ १०७ ॥ . मौग्यमुदाहरति-क इति । नायिका मुक्ताफलमनूद्य नायकं पृच्छति । हे नाथ = स्वामिन, महणन्यस्तं = मद्वलयखचित, मुक्ताफलं = मौक्तिकं, येषां = वृक्षाणां, फलं = सस्यं, ते, के द्रुमाः = के वृक्षा, किनामका द्रुमा इत्यर्थः । वा = अथवा, क्व = कस्मिन्, ग्रामे = संवसथे, केन जनेन प्ररोपिताः = उप्ताः सन्तीति शेषः । अत्र पूर्वं ज्ञातस्याऽपि मौक्तिकस्य नायिकया अज्ञानादिव प्रश्नतः मौग्ध्यं नःमाऽलङ्कारः।१०७। विक्षेपं लक्षयति-भूषाणामिति । दयिताऽन्तिके = कान्तसमीपे, भूषाणाम् = अलङ्काराणाम्, अर्धरचना = अपूर्णरचनं, नायिकाया इति शेषः एव परत्राऽपि । मिथ्या = व्यर्थ, विष्वक् = सर्वतः, अवेक्षणम् अवलोकनम् ईषत् = अल्प, रहस्याहुई निद्राकी इच्छा करती है, परंतु उसका जला हुआ भाग्य उसे निद्रा भी नहीं देता है । मौग्य-जाने हुए पदार्थको प्रियके पास अनजान-सी होकर पूछनेको साहित्य के तत्त्ववेत्ता "मौग्ध्य" कहते हैं ।। १०७ ।। उ०- नायिका मोतीके बारेमें अपने प्रियसे पूछती है - हे नाथ ! मेरे कङ्कणमें स्थित मुक्ताफल जिनका फल है वैसे पेड़ किस गांव में हैं और किनसे बोये गये हैं ? विक्षेप - प्रियके समीपमें भूषणोंकी आधी रचना और विना कारण के ही
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy