________________
१७०
साहित्यदर्पणे
प्रीतिप्रयोजितैलीलां प्रियस्यानुकृतिं विदुः ।
मृणालव्यालवलया वेणीबन्धकपर्दिनी । हरानुकारिणी पातु लीलया पार्वती जगत् ॥ अथ विलास :
यानस्थानासनादीनां मुखनेत्रादिकर्मणाम् ॥ ९९ ॥ विशेषस्तु विलासः स्वादिष्ट सन्दर्शनादिना ।
यथा
यथा-
'अत्रान्तरे किमपि वाग्विभवातिवृत्त वैचित्र्य मुल्लसितविभ्रममायताक्ष्याः । तद्भूरिसात्त्विकविकारमपास्तधैर्यमाचार्यकं विजयि मान्मथमाविरासीत् ॥'
प्रियस्य कान्तस्य, अनुकृतिम् = अनुकरण, लीलां विदुः जानन्ति, आलङ्कारिका इति भावः ।
E
लीलामुदाहरति- मृणालव्यालवलयेति । मृणालव्यालवलया मृणालम् ( बिसम् ) एव व्याल्वलयं ( सर्परूपकङ्कणम् ) यस्याः सा । वेणीबन्धकर्पादिनी वेणीबन्धेन ( केशवेशेन ) कर्पादनी ( जटाजूटयुक्ता ), इत्थंच हराऽनुकारिणी- शिवाऽनुकरणशीला, पार्वती • उमा, लीलया = विलासेन, प्रियाऽनुकरणरूपेणेति भाव:, जगत् लोकं, पातु रक्षतु । अत्र मृणालवलयादिवेषादिभिः प्रियानुकृतेर्लीला नामाऽलङ्कारः । विलामं लक्ष्यत - यातेति । इष्टसंदर्शनादिना - इष्टस्य ( प्रियस्य ) सन्दर्शनादिना ( साक्षात्करणादिना ), यानस्थानासनादीनां एवं च मुखनेत्रादिकर्मणां वदननयनादिक्रियाणां विशेष: वैलक्षण्यं, विलासः स्यात् । विलासमुदाहरति-प्रत्राऽन्तर इति । मालतीमाधवे माघवस्य स्वसखं मकरन्दं
मनस्थित्युपवेशनादीनाम्,
प्रत्युक्तिरियम् । अत्र अस्मिन, अन्तरे = अवसरे, आयताक्ष्याः = • विशाललोचनायाः, मालत्या इत्यर्थः किमपि = अनिर्वाच्यं वाग्विभवाऽतिवृत्त = वचनसम्पत्यतीत वैचित्र्यम्, उल्लसितविभ्रमं प्रकाशितविलासं भूरिसात्त्विक विकारं
प्रभूतस्तम्भादिविकृति,
उ० – कमलनालरूप सर्पकङ्कणके धारण करनेवाली, वेणीबन्धको जटाजूट बनानेवाली लीलासे शिवजीका अनुकरण (नकल) करनेवाली पार्वती जगत्की रक्षा करें। विलास - प्रियके दर्शन आदिसे गमन, स्थिति और उपवेशन आदिके तथा मुख और नेत्रादिके कर्मोकी विलक्षणताको “विलास” कहते हैं ।। ९९ ।।
उ०- - मालतीमाधव में माधव अपने मित्र मकरन्दको कहते हैं। इस अवसरमें उस सुन्दरी ( मालती ) का अनिर्वचनीय वचन सम्पत्तिको लङ्घन करनेवाले वैचित्र्यसे सम्पन्न, शृङ्गारकी चेष्टा से उद्भासित, स्तम्भ और स्वेद आदि प्रचुर सात्त्विक विकारोंसे
=
==
=
=
===
=
=