SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः अथ विच्छित्ति:स्तोकाप्याकल्परचना विच्छित्तिः कान्तिपोषकत् । यथा'स्वच्छाम्भःस्नपनविधौतमङ्गमोष्ठस्ताम्बूलद्युतिविशदो विलासिनीनाम् । वासस्तु प्रतनु विविक्तमस्त्वितीयानाकल्पो यदि कुसुमेषुणा न शून्यः ॥' अथ विव्योकः विवोकस्त्वतिगण वस्तुनीष्टेऽप्यनादरः ॥ १०० ॥ अपास्तधैर्य = निरस्तधीरत्वम्, अतः विजयि = विजयशीलं, मान्मथं = मदनसम्बन्धि, आचार्यकम् = आचार्यभावः, आविरासीद = प्रादुरासीत् ॥ - अत्र माधवदर्शनेन मालत्या यानस्थानादीनां वैशिष्टयवर्णनाद्विलासो नाम नायिकाललार, वसन्ततिलका वृत्तम् ॥ ९९ ॥ विच्छित्ति लक्षयति-स्तोकेति । कान्तिपोषकृत-सौन्दर्यपुष्टिकरी, स्तोकाऽपि अल्पाऽपि, आकल्परचना = वेशनिर्माणं, विच्छित्तिः । विच्छित्तिमुदाहरति - स्वच्छाऽम्भ इति । शिशुपालवधस्थं पद्यमिदम् । विलासिनीना = विलसनशीलानां, रमणीनामित्यर्थः। अङ्ग = शरीरं, स्वच्छाम्मःस्नपनविधीतं स्वच्छाऽम्भसा (निर्मल जलेन ) यत् स्नपने ( मज्जनम् ), तेन विधीतम् ( प्रक्षालितम् ), ओष्ट: = अधरः, ताम्बूलद्य तिविशद:=नागवल्लीरागोज्ज्वलः, वासःबस्त्रं, प्रतनु = सूक्ष्म, विविक्तं च = निर्मलं च, बाकल्पः = वेशः, कुसुमेषुणा = कामदेवेन, शून्यो न यदि रहितो न चेत, इति इयान् == एतावान्, आकल्पः, अस्तु = भवतु, अधिकस्य प्रयोजनं नास्तीति भावः । अत्र अल्पाकल्परचनया सौन्दर्यपोषस्य वर्णनात विच्छित्तिर्नामाऽलङ्कारः । प्रहर्षिणी वृत्तम् ॥ विवोकं लक्षयति -विध्वोक इति । अतिगण अत्यभिमानेन, इष्टे अभीष्टे, वस्तुनि अपि = पदार्थे अपि, अनादरः - उपेक्षा, विनोकः ।। १०० ।। युक्त, धैर्यको दूर करनेवाला और विजयशील प्रसिद्ध कामदेवका आचार्यभाव आविर्भूत हो गया। विच्छित्ति-कान्तिकी पुष्टि करनेवाली थोड़ी भी वेष रचनाको "विच्छित्ति" कहते हैं। उ.-विलासिनी स्त्रियोंका शरीर निर्मल जलमें स्नान करनेसे प्रक्षालित, . ओष्ठ ताम्बूलके वर्णसे उज्ज्वल, वस्त्र महीन और स्वच्छ, कामविकारसे रहित न हो तो इतना ही वेष पर्याप्त है। . विवोकः-अत्यन्त गर्वसे अभीष्ट वस्तुमें भी आदर न करनेको "विन्वोक" कहते हैं ।। १००॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy