SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे एवमन्यत्रापि। अथ कान्ति: सैव कान्तिमन्मथाप्यायितद्य तिः । मन्मथोन्मेषेणाति विस्तीर्णा शोभव कान्तिरुच्यते । यथा'नेत्रे खञ्जनगञ्जने-' इत्यत्र (पृ०८२)। अथ दीप्तिःकान्तिरेवातिविस्तीर्णा दीप्तिरित्यभिधीयते ॥ ९६ ॥ यथा मम चन्द्रकलानामनाटिकायां चन्द्रकलावर्णनम् 'तारुण्यस्य विलासः समधिकलावण्यसंपदो हासः । धरणितलस्याभरणं युवजनमनसो वशीकरणम् ॥' वयः = अवस्था, यौवनमिति भावः । प्रपेदे = प्राप्तवती। अत्र पार्वत्या यौवनेन अङ्गानां भूषणाच्छोमा ॥ ९५ ॥ ___ कान्ति लक्षयति-सैवेति। मन्मथाप्यायितद्य तिः = मन्मथेन (मदनेन ) आप्यायिता ( संवद्धिता ) द्यतिः ( कान्तिः ) यस्याः सा, सा एशोभा एव, कान्तिः । कान्तिमुदाहरति-"नेत्रे खजनगजने" इत्यादि ( पृ० ८२)। दीप्ति लक्षयति- कान्तिरिति । अतिविस्तीर्णा-अतिविस्तारं प्राप्ता, कान्तिरेव, दीप्तिरिति, अभिधीयते = कथ्यते ॥ ९६ ।. दीप्तिमुदाहरति - तारुण्यस्येति । तारूण्यस्य -- यौवनस्य, विलासः = विल. सनम् । तारुण्यस्य विलासस्थानमिति भावः, समधिकलावण्य सम्पदः = अतिरिक्तसौन्दर्यसम्पत्तेः, हासः हास्यस्थानम् । घरणितलस्य = भूतलस्य, आभरणम् = अलङ्कारास्पदं, तथैव युवजनमनसः = तरुणजनचित्तस्य, वशीकरणं = वशक्रियासाधनं, सा चन्द्रकलाऽस्तीति भावः । शुखसारोपा इयं लक्षणा । तारुण्यविलासादीनामतिशयो लक्षणा. प्रयोजनम् । अत्र कान्तर्रातविस्तीर्णत्वाद्दीप्तिामाऽलङ्कारः । ग्रन्थकारस्य पद्यमेतत् ।। वस्थाके अनन्तर उसप्रकारके वय ( अवस्था ) को प्राप्त किया । पह कुमारसंभवका पद्य है । इसी प्रकार औरोंको भी जानना चाहिए। कान्ति-कामदेवसे बढ़ी हुई कान्तिवाली शोभाको ही "कान्ति" कहते हैं । जैसे-"नेत्रे खञ्जनगञ्जने" (पृ० ८२ ) इत्यादि । दीप्ति-अत्यन्त विस्तीर्ण कान्तिको ही "दीप्ति" कहते हैं ।। ९६ ॥ ७०-प्रन्थकारकी चन्द्रकला नाटिकामें चन्द्रकलाका वर्णन-चन्द्रकला तारुण्य ( जवानी ) का विलास है, प्रचुर लावण्यसंपनिका हास है, भूतलका भूषण है और युवकोंके मनको वशमें करनेका साधन है।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy