SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः १६७ अथ माधुर्यम्___ सर्वावस्थाविशेषेषु माधुर्य रमणीयता। यथा-- 'सरसिजमनुविद्धं शैवलेनापि रम्यं, मलिनमपि हिमांशोलक्ष्म लक्ष्मी तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी, किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥' अथ प्रगल्भता निःसाध्वसत्वं प्रागल्भ्यम् माधुर्य लक्षयति-सर्वाऽवस्थाविशेषेष्विति । सर्वाऽवस्थाविशेषेषु = सकल. दशाभेदेष्वपि, रमणीयता = मनोहरता, माधुर्यम् । माधुर्यमुदाहरति-सरसिजमिति । वल्कलेनाऽपि मनोहररूपा शकुन्तला पश्यतो राज्ञो दुष्यन्तस्योक्तिरियम् । पद्यमिदमभिज्ञानशाकुन्तलस्थम् । शवलेन -- जलनील्या, अनुविद्धं = व्याप्तमपि, सरसिज = कमलं, रायं - मनोहरम्, मलिनम् अपि = मलीमसम् अपि, कृष्णवर्णम् अपि । हिमांऽशोः = चन्द्रमसः, लक्ष्म = कलङ्कः, लक्ष्मी = शोभा, तनोति = विस्तारयति । तथैव इयं = सन्निकटस्था, तन्वी = कृशोदरी, शकुन्तलेति भावः । वल्कलेन अपि-तरुत्वचा अपि, अधिकमनोज्ञाभृशं मनोहरा । उक्तमर्थमर्थान्तरन्यासेन द्रढयति-किमिवेति । हि-यतः, मधुराणां = मनोहराणाम, आकृतोनाम् = आकाराणां, किमित्र = किं वस्तु, मण्डनम् = प्रसाधनसाधनं, न, प्रत्युत मनोहराणामाकृतीनां सकलमपि वस्तु भूषणसाधन भवतीति भावः । अत्र वल्कलपरिधानाया: शकुन्तलाया अनलङ्काराऽवस्थायामपि रमणीयताप्रतिपादनामाधुर्य नामाऽलङ्कारः । प्रगल्भता लक्षयति-निःसाध्वसत्वमिति । निःसाध्वसत्वं = भीतिरहितत्वं, प्रागल्भ्यं = प्रगल्भता। माधुर्य-सब अवस्थाओंमें मनोहरताको "माधुर्य" कहते हैं। उ०-दुष्यन्त शकुन्तलाको देखकर कहते हैं । कमल सेवारोंसे सम्बा होकर भी मनोहर है । चन्द्रमाका कलङ्क मलिन होनेपर भी शोभाका विस्तार करता है। यह कृशोदरी ( शकुन्तला ) वल्कलको धारण करनेपर भी अधिक सुन्दरी है, मनोहर आकारोंको कौन सा पदार्थ भूषणका साधन नहीं होता है ? प्रगल्भता-भय न होनेको "प्रगल्भता" कहते हैं।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy