________________
. १६४
अथ हाव:
=
नेत्रादिविकारस्तु संभोगेच्छाप्रकाशकः ।
भाव वापसंलक्ष्य विकारां हाव उच्यते ।। ९४ ।।
साहित्यदर्पणे
यथा
'विवृण्वती शैलसुतापि भावभङ्गः स्फुरद्वालकदम्बकल्पैः । साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ॥' अथ हेला
हेलात्यन्तसमालक्ष्य विकारः स्यात् स एव तु ।
स एव भाव एव ।
किन्तु मनः = अस्याश्चित्तम्, अन्यत् इव = अपरम् इव दश्यते । अत्र मदनविकारस्याऽऽ भासात् भावः प्रतीयते ।। ९३ ।।
हावं लक्षयति- नेत्रादिविकारैरिति । श्रूनेत्रादिविकारं भूनेत्रादीनां ( धूनयनादीनाम् ) विकारै: ( चपलतादिविकृतिभिः ), संभोगेच्छाप्रकाशक: रमणकामना व्यञ्जकः, अल्पसंलक्ष्यविकारः = स्तोकज्ञेयविकृतिः, भाव एव हाव: हि हरति- विवृण्वतीति । शिवतपोवने मदनप्रादुर्भावाऽनन्तरं पार्वत्या वर्णनमिदम् । र सभवस्थं पद्यमेतत् । शैलसुताऽपि = पार्वत्यपि, स्फुरद बालकदम्बकल्पः = विकसन्नूतनकदम्ब कुसुमसदृशंः, रोमाञ्श्वयुक्तेरिति भावः, अङ्गः = देहावयवैः, भावं शिवदत् प्रथम मनोविकार, विवृण्वती = प्रकटयन्ती, चास्तरेण = सुन्दरतरेण, पर्यंस्तविलोचनेन = शिवे परिक्षिप्तनेत्रेण, मुखेन वदनेन, साचीकृता = वक्रीकृता सती, तस्थौ = स्थिता । उपजातिवृतम् । अत्र बालकदम्बेत्यनेन पुलकस्याऽल्पत्वं तेन च भावस्याऽल्पलक्ष्यत्व - प्रकाशनाद हावो ज्ञेयः ।। ९४ ।।
=
=
=
=
हेला लक्षयति- हेलेति । अत्यन्तसमा लक्ष्य विकारः = भृशसंदर्शनीय विकृतिः । स एव भाव एव, हेला स्यात् । तत्र च अल्पसंलक्ष्यविकारो भावो हावः, अधिकसमा. लक्ष्यविकारो भावो हेलेति विवेक: । हेलामुदाहरति-तदेति ।
इसका मन कुछ अन्य के समान ही देखा जाता है ।
हाव-मोहें और नेत्र आदिके विकारोंसे संयोगकी इच्छाका प्रकाशक कुछ विकारवाला भाव ही "हाव" कहा जाता है ।। ९४ ॥
उ०- शिवजीके तपोवनमें कामदेवका प्रादुर्भाव होनेपर पार्वतीकी अवस्थाकी वर्णन है। पार्वती भी खिले हुए कदम्बके पुष्पोंके समान अपने अङ्गोंसे मनके विकारको प्रकट करती हुई शिवजीमें नेत्रोंको लगाकर मुखको कुछ तिरछा कर खड़ी हो रहीं । यह कुमारसंभवका पद्य है ।
हेला - अत्यन्त विकारसे युक्त उसी भावको "हेला" कहते हैं ।