________________
तृतीयः परिच्छेदः
१६३
लीला विलासो विच्छितिर्विव्योकः किलकिश्चितम् । मोट्टायितं कुट्टमितं विभ्रमो ललितं मदः ॥ ९१ ॥ विहृतं तपनं मौग्ध्यं विक्षेपश्च कुतूहलम् । हसितं चकित केलिरित्यष्टादशसंख्यकाः ॥ ९२ ॥
स्वभावजाश्च भावाद्या दश पुंसां भवन्त्यपि ।
पूर्व भावादयो धैर्यान्ता दश नायकानामपि संभवन्ति । किंतु सर्वेऽप्यमी नायिकाश्रिता एव विच्छित्तिविशेष पुष्णन्ति |
तत्र भावः
निर्विकारात्मके चित्ते भावः प्रथमविक्रिया ॥ ९३ ॥ • जन्मतः प्रभृति निर्विकारे मनसि उद्बुद्धमात्रो विकारो भावः । यथा
'स एव सुरभिः कालः, स एव मलयानिलः ।
सैवेयमबला, किंतु मनोऽन्यदिव दृश्यते ॥' लोलेति । लीलात आरभ्य केलिपर्यन्ता अष्टादशाऽलङ्काराः ॥ ९१-९२ ॥
स्वभावजाश्च । एते, स्वभावजाः-रत्यादिस्वभावजन्याः, चकारात कृत्रिमाश्च भावाद्या दश-भावात् आरभ्य धैर्य यावत्, पुंसां नायकानामपि भवन्ति किन्तु सर्वेऽप्यमी अलङ्कारा नायिकाश्रिता एव विच्छिनिविशेष = वैचित्र्यविशेष, पुष्णन्ति-पुष्टं कुर्वन्ति ।
तत्र भावं लक्षति-निविकारात्मक इति । निर्विकारात्मके = विकाररहिते, चित्ते = मनसि, प्रथमविक्रिया = आद्यो मदनविकारः, भावः । उद्बुद्धमात्रः = आविर्भूतमात्रः ।। ९३ ॥
भावमुदाहरति-स एवेति । स एव = पूर्वाऽनुभूत एव, सुरभिः कालः = वसन्तऋतुः, स एव, मलयाऽनिलः = दाक्षिणात्यो वातः । संवेयम् अबला = नायिका,
लीला, विलास, विच्छिति, विव्वोक, किलकिञ्चित, मोट्टायित, कुट्टमित, विभ्रम, ललित, मद ।। ९१ ॥
विहृत, तपन, मोग्य, विक्षेप, कुतूहल, हसित, चकित और केलि ये अठारहस्वभावसिद्ध और कृत्रिम भी होते हैं ।। ९२ ॥
__ स्वभावज ( स्वाभाविक ) और चकार पाठसे कृत्रिम भी होते हैं। इनमें भावसे धर्यतक नायकों के भी हो सकते हैं। परन्तु ये सब नायिकामें आश्रित रहनेपर ही विशेष वैचिश्यकी पुष्टि करते हैं। भाव-ज मसे विकाररहित चित्तमें प्रथम उवु : विकारको "भाव" कहते हैं ।९३।
उ.-वही वसन्तका समय है वही मलयका वायु है यह स्त्री भी वही है किन्तु