________________
१६०
साहित्यदर्पणे
क्वचिदन्योन्यसाय मासां लक्ष्येषु दृश्यते ।।
यथा
'न खलु षयममुष्य दानयोग्याः पिबति च पाति च यासको रहस्त्वाम् । विट ! विटपममुं ददस्व तस्यै भवति यतः सदृशोश्चिराय योगः ॥ तव कितव! किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्पकर्णपूरः । ननु जनविदितैर्भवद्वयलीकैश्चिरपरिपरितमेव कर्णयुग्मम् ॥
क्वचिन्नायिकानामन्योन्यसायं प्रदर्शयति-क्वचिदिति । आसाम् = उप. दर्शितनायिकानां, क्वचित् = कुत्रचित्, अन्योन्यसायं = मिथः समिश्रणं, लक्ष्येषु = महाकविप्रबन्धेषु । दृश्यते = अवलोक्यते ।
अन्योन्यमाङ्कर्य मुद हरति-न खल्विति । पुष्षपल्लवसहितां वृक्षशाखां ददतं नायकं प्रति नायिकाया उक्तिरियम् । हे विट = हे भुजङ्ग , वयम्, अमुष्य = विटपस्य, दानयोग्नया = वितरणार्हा न, असक = असौ एव, "अव्ययसर्वनाम्नामकच् प्राक्टेः" इति सूत्रेण अकच् प्रत्ययः । या = तव प्रिया, रहः = विजने, त्वा = भवन्त, पिबति - चुम्बनोति भावः, पाति च = नायिकाऽन्तरात् रक्षति च, तस्य = नायिकाय, अमुं विटपं = शाखां, विटं पाति इति विटपः, नायिकायामपि विटरक्षणात् विटपत्वमिति भावः । ददस्व = वितर । यत. = यस्मात्कारणात, चिराय = बहु कालपर्यन्तं, सदृशो:तुल्ययो: पदाऽर्षयोः, योगः = सम्बन्धः भवतीति शेषः । तवेति । हे कितव = हे धूत !; वथा = व्यर्थ मेव, आहितः = निहितः, मत्कर्णयोरिति शेषः । क्षितिरुहपल्लवपुष्पकर्णपूरैः = क्षितिरुहाणां ( वृक्षाणाम् ) पल्लवपुष्पाणि (किसलयकुसुमानि ) एव कर्णपूराः (कर्णभूषणानि ) तः, नः = अस्माकं, ममेति भावः । किं = कि प्रयोजनमिति भावः । मन = भोः, जनविदितः = लोकज्ञातः, भवदधलीकैः = तव कामजाऽपराधः, कर्णयुग्म बोत्रयुगलं, चिरपरिपूरितम् एव-चिरकालात् परिपूर्णम् एव, आधानस्थानाऽभावात्पल्लव: पुष्पकर्णपूराणां न कश्चिदवकांशः ।।
प्रियके स्वाधीन न होनेपर अन्य पांच अवस्याएं नहीं हो सकती हैं । ऐसा कोई कहते हैं।
कुछ लक्ष्योंमें इनका परस्पर संमिश्रण भी देखा जाता है।
जैसे- पुष्पों और पल्लवोंके साथ वृक्षशाखाको देनेवाले नायकको नायिका कह रही है-- "हे विट ! हम इस वृक्षशाखाको पानेके लिए योग्य नहीं है, जो तुम्हारी प्रिया तुम्हें चुम्बन करती है और रक्षा भी करती है इसे उसीको दे दो क्योंकि दो समान पदार्थोका ही बहुत समयतक सम्बन्ध बना रहता है"।