________________
१५६
साहित्यदर्पणे
प्रियः कृत्वापि संकेत यस्या नायाति सनिधिम् । विप्रलब्धा तु सा ज्ञेया नितान्तमवमानिता ॥ ८३ ।। यथा'उत्तिष्ठ दृति ! यामो यामो यातस्तथापि नायातः । याऽतः परमपि जीवेजीवितनाथो भवेत्तस्याः॥'
नानाकार्यवशायस्या दूरदेशं गतः पतिः । . सा मनोभवदुःखार्ता भवेत्प्रोषितभत का ।। ८४ ॥
यथा
'तां जानीयाः परिमितकथां जीवितं मे द्वितीयं
विप्रलब्धां लक्षयति प्रिय इति । प्रियः = कान्तः, संकेतं = समागमस्थाननिर्देशं, कृत्वाऽपि = विधायाऽपि, नायिकायाः, सन्निधिं = समीपं, न आयाति = ना गच्छति, सा तु, नितान्तम् । एकान्तम्, अवमानिता = तिरस्कृता, विप्र लब्धा, ज्ञेया = बोध्या ।। ८३॥
विप्रलब्धामुदाहरति-उत्तिष्ठति । सङ्केतस्थानमागस्य चिरप्रतीक्षाऽनन्तरमपि कान्तस्याऽनागमेन खिन्नाया विप्रलब्धाया दूनी प्रति कथनमिदम् । हे दूति ! = हे सन्देशहरे !, उत्तिष्ठ = उत्थानं कुरु, यामः = गच्छामः, “यमिति शेषः । यामः--प्रहरः, अत्रायतयोरवयोरिति शेषः। यात: = पतीतः, तथाऽगि, न आयातः -- आगतः, कान्त इति शेषः । अत: :- अस्मात्कालात, अपि, या जीवेत् = प्राणान् घारयेत, तस्या एव, जीवितनाथ: == प्राणनाथ: भवेत, न तु अधीराया ममेति भाव: । सङ्कत विधायाऽपि ., कान्तस्याऽनागमेन इयं विप्रलब्धा नायका ।। ८३ ॥
प्रोषितभर्तृकां लक्षयति --- नानाकार्यवशादिति । यस्याः-नायिकायाः पतिःवल्लभः, नानाकार्यवशात = अनेककर्माऽधीनत्वाद्धेतोः, दूरदेश सिप्रकृष्टप्रदेशं, गतः = प्राप्तः, मनोभवदुःखिता-मदनवेदनापीडिता, सानायिका, प्रोपितभर्तृक। भवेन ॥४॥
प्रोषितभर्तृकामुदाहरति - तां जानीया इति । कुबेरशापेन पत्नीविप्रयुक्तस्य
विप्रलब्धा-प्रिय संकेत करके भी जिसके समीप नहीं आता है, अत्यन्त अपमानित उसे "विप्रलब्धा" कहते है ।। ८३ ॥
उदाहरण- दूति ! उठो। हम लोग चलें, एक प्रहर बीच चुका फिर भी वे नहीं आए । इसके अनन्तर भी जो जीयेगी उसके प्राणनाथ होंगे।
प्रोषितभर्तृका-जिसका पति अनेक कामोंमें व्यस्त होकर दूर देशमें गया है, कामदेवसे पीडित उस नायिकाको "प्रोषितभत का" कहते हैं ।। ८४ ।।
उदाहरण-मेघदूतमें यक्ष मेघसे कह रहा है-"हे मेघ ! मुझ सहचरके दूर