________________
तृतीयः परिच्छेदः
चाटुकारमपि प्राणनाथं रोषादपास्य या । पश्चात्तापमवाप्नोति कलहान्तरिता तु सा ।। ८२ ॥
यथा मम तातपादानाम् --
'नो चाटुश्रवणं कृतं न च दृशा हारोऽन्तिके वीक्षितः, कान्तस्य प्रियहेतवो निजसखीवाचोऽपि दूरीकृताः । पादान्ते विनिपत्य तत्क्षणमसौ गच्छन्मया मूढया पाणिभ्यामवरुध्य हन्तं ! सहसा कण्ठे कथं नापितः ॥'
अथ प्रसङ्गपतितां कलहाऽन्तरितां लक्षयति-चाटुकारमिति ! या = नायिका, चाटुकारमपि प्रियवाक्येन अनुनयशीलमपि । प्राणनाथं = प्रियं, रोषात् = क्रोधाद्धेतोः अयास्म = बहिष्कृत्य, अनन्तरं पश्चात्तापम् = अनुतापम् अवाप्नोति, सा कलहान्तरिता बोध्या ।। ८२ ।।
=
कलहान्तरिता मुदाहरति-नो चाटुश्रवणमिति । अनुनयन्तं प्रियं प्रत्य पश्चादनुतप्तायाः कलहान्तरिताया नायिकाया उक्तिरियम् । चाटुश्रवणं = कान्तस्य प्रियवचनाकर्णनं, नो कृतं = न विहितम् । अन्तिके = निकटे हारः = - प्रियेणाऽनुनयार्थ सममाणा मुक्तावली, दृणा = दृष्या, न वीक्षितः = नाऽवलोकितः । तथा च कान्तस्य = प्रियस्य, प्रियहेतव: - अभीष्टकारणभूताः, निजसखीवाचोऽपि स्वसहचरोवचनान्यपि, दूरीकृताः = परित्यक्ताः किंबहुना असो = कान्तः पादाऽन्ते = चरणप्रान्ते, अनुन-: यार्थमिति शेषः । नित्य सप्राप्य, तत्क्षणं = तत्कालमेव, गच्छन् = नैराश्येन दूरं व्रजन्नपि मूढदा प्राप्तमोहया, क्रोधवशादिति शेषः । मया, पाणिभ्यां कराभ्याम्, अवरुध्य निरुध्य, सहसा = अतर्कित एव कण्ठे = तस्य गले, कथं = केन प्रकारेण, न अर्पितः न समर्पितः प्रत्यनुनयार्थं कान्तस्य कण्ठे मया पाणिः कथं न निहित इति भावः । अनुनयन्तं कान्तं बहिष्कृत्य अनुतप्तेयं नायिका कलहान्तरिता ।। ६२ ।
==
=
१५५
=
=
=
'कलहान्तरिता - जो खुशामद करनेवाले प्राणनाथको भी क्रोध से पहले ठुकराकर पीछे पछताती है उसे "कलहान्तरिता" कहते हैं । ८२ ॥
इसके उदाहरण में अपने पिताजीका पद्य देते हैं
मैंने अपने प्रियके प्रियवचनको भी नहीं सुना, निकट स्थित हारको भी नहीं देखा, प्रियके प्रीतिसम्पादनकी हेतुभूत प्रियसखी के वचनोंकों भी ठुकरा दिया। मेरे पैरों-पर गिरकर उसी क्षण निराश होकर जाते हुए उनको मोहवाली मैंने रोककर सहसा उनके गले में आलिङन क्यों नहीं किया ? हाय !