________________
१५२
साहित्यदर्पणे
यथा-'तदवितथमवादी:-' (८५ पृ०)। इत्यादि ।
अभिसारयते कान्तं या मन्मथवशंवदा ।
खयं वाभिसरत्येषा धीरैरुक्ताभिसारिका ।। ७६ ॥ क्रमाद्यथा
न च मेऽवगच्छति यथा लघुतां, करुणां यथा च कुरुते स मयि । . निपुणं तथैनमभिगम्यं वदेरभिदूति काचिदिति संदिदिशे॥ 'उरिक्षप्तं करकणद्वयमिदं, बद्धा दृढं मेखला,
यत्नेन प्रतिपादिता मुखरयोमञ्जीरयोर्मुकता। . खण्डिताया उदाहरणं-"तदवितथमवादीः" इत्यादि (पृ० ८५ ) ।।७।।
अभिसारिका लमयति-प्रभिसारयत इति । मन्मथवशंव -मन्मथस्य (कामस्य) वशंवदा ( वश्या ) सती, या नायिका, कान्तं प्रियम्, अभिसारयते-दूत्यादिमुखास्कुत्रचित्स्थाने प्रापयति, वा अथवा, स्वयम् आत्मना, अभिसरति = कान्तसमीपं गच्छति, एषा = इयं नायिका, धीरः=विद्वद्भिः, अभिसारिका, उक्ता = कथिता ॥ ७६ ॥
कान्तमभिसारयन्त्या नायिकाया उदाहरणं-न चेति । ( हे दूति = हे सन्देश हरे ! ) सः = मत्प्रियः, यथा = येन प्रकारेण, मे = मम, लघुतां = लाघवं, न अव. गच्छति = न जानाति, ए च यथा, मयि = विषये, कणाम् = अनुकम्पा, कुरुते - विदधाति । एनं =तं कान्तम्, अभिगम्य-= सम्मुखं गत्वा, निपुणं = कुशलं, तथा = तेन प्रकारेण, वदेः = बहि, इति काचिन = अभिसारिका, अभिदूति = दूती लक्ष्यीकृत्य, संदिदिशे = सन्दिष्टवती, कान्तमभिसारयन्तीयं प्रयमाऽभिसारिका ।
स्वयमभिसरन्त्या उदाहरणमाह-उत्क्षिप्तमिति । अभिसारिका स्वसखीं कथयति-हे प्रियसखि ! इदं करकङ्कणद्वयंपाणिवलयद्वितयम्, उरिक्षप्त मणिबन्धा. दूध्वं न्यस्तम्, शब्दनिवारणार्थमिति भावः । एवं परत्राऽपि । मेखला च = नानाविध. रत्नखचिता काञ्ची च, दढ = गाढं, बद्धा नद्धा। मुखरयोः = शब्दायमानयोः, मञ्जीरयोः= नुपुरयोः, मूकता = निःशब्दता, यत्नेन=प्रयासेन, प्रतिपादिता सम्पादिता ।
जैसे-"तदविसथमवादी: ( पृ. ८५ ) । इत्यादि ।
अभिसारिका-कामके वशमें रहनेवाली जो प्रियको संकेत स्थल में बुलाती है वा स्वयम् उसके पास जाती है, उसे विद्वान् “प्रभिसारिका" कहते हैं ।। ७६ ॥
प्रियको बुलानेवाली प्रभिसारिका-"जिस तरहसे वे मेरी लघुताको न समझें और मेरे ऊपर दया करें, उसके पास जाकर अच्छी तरहसे कहो" इस प्रकार किसी नायिकाने दूतीको सन्देश दिया।
प्रियके पास स्वयम् जानेवाली मभिसारिका-इन दोनों करकङ्कणोंको मैंने मणिबन्धोंके ऊपर रक्खा, मेखला (करधनी ) को मजबूतीके साथ बांधा, शन.