________________
तृतीयः परिच्छेदः
कलहान्तरिता विप्रलब्धा प्रोषितभर्तृका । अन्या वासकसजा स्याद्विरहोत्कण्ठिता तथा ॥ ७३ ॥
तत्र
कान्तो रतिगुणाकृष्टो न जहाति यदन्तिकम् । विचित्रविभ्रमासक्ता सा स्यात्खाधीनभर्तृका ।। ७४ ।। यथा— 'अस्माकं सखि वाससी - ' ( ७२ पृ० ) । इत्यादि । पार्श्वमेति प्रियो यस्या अन्यसंयोगचिह्नितः ।
सा खण्डितेति कथिता धीरेरीयकषायिता ।। ७५ ।।
१५१
कलहान्तरिता कलहेन अन्तरिता ( व्यवहिता .) कान्तेनेति शेषः, विप्रलब्धा = वखिता, कान्तेनेति शेषः । प्रोषितभर्तृका = प्रोषितः ( प्रवास उषितः) भर्ता ( प्रियः ) यस्याः सा, समासान्तः कप् । वासकसज्जा = वासकं (वस्त्रम् ) तेन संज्ञा ( संनद्धा ) । विरहोत्कण्ठिता = विरहेण ( प्रियवियोगेन) उत्कण्ठिता ( उत्सुका) ।। ७३ ।।
स्वाधीनभर्तृका लक्षयति- कान्त इति । रतिगुणाऽऽकृष्टः रविगुणेन ( अनुरागगुणेन ) आकृष्टः ( जाताकर्षणः ), कान्तः = वल्लभः, यदन्तिकं = यस्याः ( नायिकाया: ) अन्तिकं ( समीपम् ), न जहाति = न त्यजति । विचित्रविभ्रमाऽऽसक्ता = अनेकविलास सक्तियुक्ता सा = तादृशी नायिका, स्वाऽधीनभर्तृका स्यात् । उदाहरति - " अस्माकं सखि वाससी" ( पृ०७२ ) ॥ ७४ ॥
खण्डितां लक्षयति- पार्श्वमिति । अन्यसंयोगचिह्नितः = अन्यस्याः ( नायिकायाः ) संयोग: ( संयोजनम्), तेन चिह्नितः (नखदशनक्ष ताचि ह्रयुक्तः ); कान्तः प्रियः यस्था: = नायिकायाः, पार्श्व = निकटम् एति = आगच्छति, ईर्ष्याकषायिता = ईया ( असूयया ) कक्षा पिता ( कलुषितचित्ता ), सा= नायिका, धीरैः = विद्वद्भिः, खण्डितेति कथिता = अभिहिता ॥ ७८ ॥
कलहान्तरिता, विप्रलब्धा, प्राषितभर्तृका, वासकसज्जा और विरही स्कण्ठिता ।। ७३ ।।
-
स्थान का अनुराग गुणसे आकृष्ट प्रिय जिसका सामीप्य नहीं छोड़ता है, विचित्र विलासवाली उसको “स्वाधीनभर्तृका" कहते हैं ॥ ७४ ॥
जैसे – “अस्माकं सखि ! वाससी” पृ० ७२ ।
खण्डिता - दूसरी स्त्रीके संयोगसे चिह्नित प्रिय जिसके पास जाता है। ईर्ष्याि कलुषित चित्तवाली उसको विद्वान् "खण्डिता" कहते हैं ।। ७५ ।।