________________
तृतीयः परिच्छेदः
१४९
निगुणानपि न दृष्टि न रज्यति गुणिज्वपि । वित्तमानं समालोक्य सा राग दर्शयेबहिः ॥ ६ ॥ काममङ्गीकृतमपि परिक्षीणधनं नरम् । मात्रा निःसारयेदेषा पुनःसंधानकाझ्या ॥ ६९ ॥ तस्कराः पण्डका मूर्खाः सुखप्राप्तधनास्तथा ।
लिङ्गिनश्छन्नकामाया अस्याः प्रायेण बल्लभाः ।। ७० ।।
सामान्यनायिका ( वेश्याम् ) वशेषतः परिचाययति निर्गुणानिति । सा च= सामान्यनायिका ( वेश्या ), निर्गुणानपि पुरुषाम्, न द्वेष्टि-तत्र द्वेषं न करोति , गुणिषु अपि, सगुणेषु अपि पुरुषेषु, न रज्यति = अनुरक्ता न भवति । सा, वित्तमात्रं = धनमात्रं, कामुकपुरुषस्येति शेषः । समालोक्य दृष्ट्वा, बहिः = कृत्रिमरूपम् इति भावः; रागम् अनुरागं, दर्शयेत्, न तु अन्तःस्थितं इति शेषः ।। ६८ ॥
एषा = सामान्यनायिका, कामम् = अत्यर्थम्, अङ्गीकृतम् अपि = प्रियत्वेन स्वीकृतम् अपि, परिक्षीणधनं = नष्टद्रव्यं, नरं = कामुकजनं, पुनः = भूयः, सन्धानकाङ्क्षया समागमेच्छया, धनार्जनार्थमिति शेषः । मात्रा जनन्या शम्भल्या, निष्कार' सयेत्-निराकुर्याद्, पुनर्धनसंयोगे सति मातरं दूषयित्वा परिग्राहयितुमिति भावः ॥६९:
सामान्यनायिकाया वल्लभानुद्दिशति-तस्करा इति । तस्कराः = चौराः, पण्डकाः = वातपाण्ड्वादयः, वस्तुत:-पण्डका इत्यत्र पण्डा एव पण्डका:, स्वाऽर्थे कन् । "तृतीयाप्रकृतिः षण्ढः क्लीब: पण्डो नपुंसके” इत्य नरः । पण्डकाः = नपुंसकाः, वातपण्डका: वातेन ( रोगविशेषेण ) पण्ड्रकाः ( नपुंसकाः । "पण्ड्रकाः” इति पाठान्तरस्वीकारे तस्य प्रयोगो नोपलभ्यते । मूर्खा: अज्ञाः, सुखप्राप्तधनाः-सुखेन ( अनायासेन ) प्राप्त ! लब्धम् ) धनं (द्रव्यम् ) यस्ते, पित्राजितधनसपनाः, दुःखाजितधनस्य व्ययितुमशक्यत्वादिति भावः । लिङ्गिनः = लिङ्गम् (चिह्नम् ) स्ति येषां ते; तापसब्रह्मचार्यादिवेशधारिणः । छन्नकामाद्याः छन्नः ( प्रच्छन्नः ) कामः ( मदनावेशः ) येषां ते, अथवा छन्नं कामयन्ते इति, कर्मण्यण् । ते आद्या येषां ते। प्रच्छन्नकामा जनाः
वह निर्गुणों से भी द्वेष नहीं करती है गुणियों में भी अनुरक्त नहीं होती है केवल धनको देखकर बाहर अनुराग दिखाती है ॥ ६८ ।।
अच्छी तरहसे अङ्गीकृत पुरुषकोभी धनसे क्षीण होनेपर फिर समागमकी इच्छासे अपनी माताके द्वारा निकलवाती है ॥ ६९ ।।
___ चोर, पण्डक ( वातपाण्डुरोगवाले वा नपुंसक ), मूर्ख, जिनसे अनायास ही धन प्राप्त हो सके वैसे पुरुष, तपस्वी और ब्रह्मचारी आदिके वेष लेनेवाले, जिनका कामावेश