SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः १४७ परकीया द्विधा प्रोक्ता परोढा कन्यका तथा । तत्र यात्रादिनिरताऽन्योढा कुलटा गलितत्रपा ।। ६६ ।। यथा'स्वामी निःश्वसितेऽप्यसूयति, मनोजिघ्रः सपत्नीजनः, ___ श्वश्रुरिङ्गितदैवतं, नयनयोरीहालिहो यातरः । तदूरादयमञ्जलिः, किमधुना हग्भङ्गिभावेन ते, वैदग्धीमधुरप्रबन्धरसिक! व्यर्थोऽयमत्र श्रमः ॥' परकीयां विभजति-परकीयेति । परोढा = परेण ऊठा (विवाहिता) कन्यका चेति परोया नायिका द्विविधा। परोढां लक्षयति-यात्राविनिरतेति । यात्रादिनिरता = उत्सवादिविलोकनतत्परा, कुलटा = परमर्तृगामिनि, गलितत्रपा = निलंज्जा, सा अन्योढा = अन्येन ऊढा. परोढा भवतीति भावः ।। ६६ ।। परकीयामुदाहरति-स्वामीति । उपनायकं प्रति परोढाया उक्तिरियम् स्वामी-भर्ता, परिणेतेति भावः । निःश्वसिते. अपि = निःश्वासकरणे अपि । असूयतिदोषानाविष्करोति, मानसव्यभिचारमाशङ्कत इति भावः । सपत्नीजनः = एकभर्तृ. काजनः, मनोजिघ्रः = चित्ताघ्राता, मम परपुरुषविषये मानसमनुमिनोतीति भावः । "मनोजिघ्र" इत्यत्र मनो जिघ्रति इति "पाघ्रामाधेडदशःशः" इति शप्रत्ययः । श्वश्रःभर्तृजननी, इङ्गितदैवतम् = इङ्गितस्य ( इस्तादिचेष्टादेः ) दैवतम् ( देवता, इङ्गिताsशिक्षेति भावः ) । यातरः = पति भ्रातृपत्न्यः, नयनयोः नेत्रयोः, ईहालिहः = चेष्टाऽनुमापिकाः, तत्-तस्मात्कारणात्, दूरात-विप्रकृष्टप्रदेशात् एव, अयमञ्जलि:=सम्पुटितकरद्वयं, मया समर्म्यत इति शेषः । अधुना = सम्प्रति, ते = तव, दृगङ्गिमावेन = नेत्र. विच्छित्यभिप्रायेण, मेत्रसङ्केतव्यापारेणेति भावः किं =fक फलम् ? अतः हे वैदग्धीमधुरप्रबन्धरसिक = वैदग्ध्या ( रसिकत्वेन ) यः मधुरः ( मनोहरः ) प्रबन्धः (व्यापारः) तत्र रसिकः ( अनुरागी), तत्सम्बुद्धी, अत्र = अस्मिन्स्थाने, धमः = परिश्रमः, परकीयाके दो भेद होते हैं-परोढा (विवाहिता ) और कन्या । यात्रा आदिमें तत्पर और लज्जासे हीन कुलटाको अन्योता वा परोठा कहते हैं ।। ६६ ॥ परोढाका उदाहरण-स्वामी सांस लेनेमें भी ईर्ष्या करते हैं, सपत्नी (सौत) मनकों सूघती है अर्थात् अभिप्रायको भांपनेके लिए कोशिश करती है । सास अभिप्राय जाननेके लिए देवता है जेठनियां और देगरानियां चेष्टाको चाटती हैं अर्थात् मेरी चेष्टाका अनुमान करती रहती हैं, इसलिए मैं दूरसे ही अजलि जोड़ती हूं, रसिकतासे
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy