________________
तृतीयः परिच्छेदः
तरिक रोदिषि गद्गदेन वचसा, कस्याप्रतो रुद्यते,
नन्वेन्मम, का तवास्मि १ दयिता, नास्मीत्यतो रुद्यते ।।' इयमेवाधीरा यथा
'साधं मनोरथशतैस्तव धूत ! कान्ता
सेव स्थिता मनसि कृत्रिमहावरम्या। अस्माकमस्ति नहि कश्चिदिहावकाश
स्तस्मात्कृतं चरणपातविडम्बनाभिः॥' अपराधाः, मयि = वर्तन्त इति शेषः । नायकः पृच्छति-तत् = तहि, गद्गदेन = अव्यक्तेन, वचसा = वाक्येन, कि = किमर्थ रोदिषि = रोदनं करोषि, नायिका-उत्तरस यति-कस्य, अग्रतः = पुरतः रुद्यते = रोदनं क्रियते । नायकः कथयति-मम अग्रतः; एतत् = रोदनं, तवेति शेषः, तव = भवतः का अस्मि, इति पत्युललनान्तरविलसनखिन्नाया नायिकायाः प्रश्नः । नायक उत्तरयति-दयिता- प्रिया, त्वं ममेति शेषः । नायिका कथयति-न अस्मि, तव प्रियेति शेषः, इत्यतः, = हेतोः, रुद्यते-रोदनं क्रियते। अत्र उत्तरप्रदानान्नायिकाया धीरात्वं रोदनाच्च अधीरात्वं तत्र तत्र प्रतीयते शार्दूल विक्रीडितं वृत्तम्।
इयम् एव = मध्या एव, अधीरा। ___मध्यामधीरामुदाहरति । पादपतितं नायकं प्रति मध्याया अधीराया उक्तिरियम् हे धूर्त = हे प्रतारणपर ! कृत्रिमहावरम्या कृत्रिमः ( क्रियानिवृत्तः अस्वाभाविक इति मावः यो हावः ( भावविशेषः ) तेन रम्या ( मनोहरा ) सा एव-त्वदीया प्रिया एव, मनोरथशत: बहुभिरभिलाषः, साधं = समं, तव = भवतः, मनसि = चित्ते, स्थिता वर्तमाना, शेष । इह = अस्मिन् तव मनसीति भावः । कश्चित् अवकाशः निवासस्थानम्, न अस्ति, तस्मात् - कारणात् चरणपातविडम्बनाभिः = पादपतन. प्रतारणाभिः, कृतं = पर्याप्तं, चरणापातविडम्बनाभिः साध्यं नास्तीति भावः । अत्र वसन्ततिलका वृत्तम् । अत्र परुषोक्तिमि यकसन्तापनात इयमधीरा मध्या। दिया । नायिका--आपने मेरा अपराध नहीं किया। सब अपराध मेरे ही हैं । नायकतब क्यों गदगद स्वरसे रो रही हो? नायिका मैं किसके सामने रो रही हूँ? नायकयह मेरे सामने ही तो रो रही हो। नायिका-मैं आपकी कौन हूँ? नायक-तुम प्रिया हो। नायिका- मैं आपकी प्रिया नहीं हूँ, इसी कारणसे रो रही हूँ।
अधीरा मध्या-हे धूर्त ! सैकड़ों मनोरषोंके साथ बनावटी भावविशेषसे सुन्दरी वही प्रिया तुम्हारे मनमें रह रही है । यहां हमारा कुछ भी स्थान नहीं है, इसलिए पैरोंपर पड़नेकी विडम्बनाओंकी कुछ जरूरत नहीं है।