SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ १४२ साहित्यदर्पणे तत्र मध्या धीरा यथा 'तदवितथमवादीयन्मम त्वं प्रियेति प्रियजनपरिभुकं यद दुकूलं दधानः । मदधिवसतिमागाः कामिनां मण्डनमी व्रजति हि सफलत्वं वल्लभालोकनेन ।' मध्येव धीराधीरा यथा'बाले ! नाथ ! विमुश्च मानिनि ! रुषं, रोषान्मया किं कृतं? __ खेदोऽस्मासु, न मेऽपराध्यति भवान् सर्वेऽपराधा मयि । मध्याऽधीरां लक्षयति-प्रधोरेति । मध्याऽधीरा; परुषोक्तिभिः-कठोरवचनैः, प्रियं दहेत् । मध्यां धीरामुदाहरति । तदवितथमिति । अन्यस्या ललनायाः समागमोत्सरं तस्या दुकूलं परिधाय आगतं नायकं प्रति नायिकाया वचनम् । पद्यमिदं शिशुपालवधस्थम्। हे नाथ ! त्वं मम प्रिया = वल्लभा, इति यत् अवादीः= त्वमुक्तवान्, तद् = वचनम् अवितयं = सत्यम् । यत् = यस्मात्कारणाद, प्रियजनपरिभुक्तं = वल्लभाजनपरिहित, दुकूलं = वस्त्रं, दधानः धारय सन्, मदधिवसतिमद्वासस्थानम्, आगा=आगतवान् । हि= यस्माकारणाद, कामिनां= विलासिनां जनानां, मण्डनश्रीः = लङ्कारशोभा, वल्लभाऽऽलोकनेन = प्रियाऽवलोकनेन, सफलत्वं = साफल्यं, व्रजति = प्राप्नोति । अत्र सस्मितकुटिलोक्त्या नायकसन्तापजननादियं मध्या धीरा "मालिनी वृत्तम्"। मध्यामेव धीराऽधीरामुदाहरति-बाले इति । ललनान्तरासक्तनायकस्य नायिकायाश्चोक्तिप्रत्युक्तिरूपं पद्यमिदम् ।। नायकः सम्बोधयति-बाले इति ।नायिका उत्तरयति नाय इति । नायकः अनुरुणदि-हे मानिनि = हे मानवति !, रुषं = कोपं विमुख परित्यय । नायिका प्रत्युत्तरयति । मया, रोषात कोपात्, कि, कृतं विहितम् । नायकः कथयति-अस्मासु मयि, खेदः = विषादः, जनित इति शेषः, तब रोषान्मयि विषादो जनित इति भावः । नायिका प्रत्युत्तरयति-भवान्, मे = मह्यम्, "क्रुधदुहेासूयाऽर्थानां यं प्रतिकोप" इति सम्प्रदानत्वाच्चतुर्षी न अपराध्यति अपराधं न करोति, प्रत्यूत सर्वे = सकलाः उनमें मध्याधीरा--(हे नाथ ! ) "तुम मेरी प्रिया हो" ऐसा जो आपने कहा, वह सब है, जिस कारणसे कि अपनी प्रणयिनी (मेरी सौत ) से उपभुक्त वस्त्र पहनकर आप मेरे पास आये हैं । कामुक जनोंकी अलंकारशोमा प्रियाके देखने पर हो जाती है। धीराधीरा मध्या-यह पच नायक और नायिकाके प्रश्न और उत्तरके रूपमें हैं। नायक-बाले !, नायिका-नाय !, नायक-है मान करनेवाली ! क्रोध छोड़ दो। नायिका-मैंने क्रोधसे क्या किया? नायक-तुमने मुझमें खेद उत्पन्न कर
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy