SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १३८ साहित्यदर्पणे - अथ प्रगल्भी स्मरान्धा गाढतारुण्या समस्तस्तकोविदा । भावोन्नता दरब्रीडा प्रगल्भाक्रान्तनायका ।। ६० ॥ स्मरान्धा यथा 'धन्यासि या कथयसि प्रियसंगमेऽपि विश्रब्धचाटुकशतानि रतान्तरेषु । नीवी प्रति प्रणिहिते तु करे प्रियेण सख्यः ! शपामि यदि किंचिदपि स्मरामि ।। अथ प्रगरमां लक्षयति-स्मराऽन्धेति। प्रकर्षेण गल्भतः = स्मराऽतिशयेन धाष्टयं प्रकर्शयतीति प्रगल्भेति यौगिकोऽर्थः। प्रगल्भा षडविधा, यथा स्मराऽन्धा, गाडतारुण्या, समस्तरतकोविदा भावोन्नता, दरव्रीडा आक्रान्तनायका चेति । तत्र स्मरान्धा यथा-धन्याऽसीति । सखीषु रमणसमये आलापकारिणी काश्चिदुपहसन्त्याः कस्याश्चिन्नायिकाया उक्तिरियम् । या = त्वं, प्रियसङ्गमे = प्रियसमागमकाले, रसाऽन्तरेषु अपि = रतं ( रमणम् ), तस्य अन्तरेषु अपि ( मध्यकालेषु अपि, न आदो न अन्ते प्रत्युत मध्यकालेषु अनिर्वचनीयानन्दानुभूतिसमयेष्वपि ) विश्रब्ध. चाटुकशतानि = विस्रब्धेन (विश्वासेन ) चाटुकशतानि ( बहूनि प्रियवचनानि ), कथयसि-वदास, तादृशी त्वं धन्याऽसि भाग्यवती वर्तसे, वस्तुतस्तु तादृशाऽनिर्वचनीयसुखाऽनुभूतिसमयेऽपि भाषणशीलत्वात् अधन्याऽसीति तात्पर्यम् । तत्प्रसङ्गात् स्वाऽनुभूति सखीषु प्रतिपादयति-हे सध्यः = हे वयस्याः । तु= परन्तु, प्रियेण = कान्तेन; नीवी प्रति = मम वसनग्रन्थि प्रति, करे = हस्ते, प्रणिहिते = नीवीमोक्ष य स्थापित एव, किश्चित्, स्मरामि यदि = स्मरणं करोमि चेत्, अहमिति शेष: । तहि शपामि = शपथं करोमि । अत्र कान्तेन स्वनीवी प्रति करप्रणिधानानन्तरभववृत्तस्य स्मरणाऽभावान्नायि. कायाः स्मराऽन्यत्वं प्रतीयते । अत्र शपामीत्यत्र "शप आक्रोशे" इति धातुरुभयपदी वर्तते, परं "शप उपालम्भे" इति वातिकेन शपधातुरुपालम्भ आत्मनेपदी, परन्तु उपलम्भन. मित्यस्य प्रकाशनमर्थः, अतः शपथप्रकाशने आत्मनेपदी, अत्र तु शपथमात्रस्य विवक्षितत्वानात्मनेपदीति बोध्यम् । अत्र कयित्री स्मरान्धा बोध्या । वसन्ततिलका वृत्तम् । __ प्रगल्भाभव-स्मरान्धा ( कामविकारसे अन्धप्राया ), गाढतारुण्या ( प्रगाढ पवानीवाली ) समस्तरतकोविदा = संपूर्ण रतिक्रीडाओंकी जानकार, भावोन्नता दरव्रीडा ( थोड़ी लज्जावाली) और आक्रान्तनायका ( नायकको आज्ञा देनेसे अतिक्रमण करनेवाली प्रगल्भाके ये छः भेद होते हैं ।। ६० ।। स्मरान्धा-कोई स्त्री अपनी सखीको कह रही है। सखि ! तुम धन्य हो, जो कि प्रियके संगममें रतिके मध्यकालोमें भी विश्वासपूर्वक सैकड़ों प्रियवचन कहती हो। में तो वस्त्रग्रन्थिमें प्रियके हाथ रखनेपर कुछ भी याद रखती हो तो कसम खाती हूँ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy