________________
तृतीयः परिच्छेदः
१३५
निर्यान्तीषु सखीषु वासभवनाग्निर्गन्तुमेवेहते,
जाता वामतयैव संप्रति मम प्रीत्ये नवोढा प्रिया ।' माने मृदुर्यथा
'सा पत्युः प्रथमापराधसमये सख्योपदेशं विना
नो जानाति सविभ्रमानवलनावक्रोक्तिसंसूचनम्। स्वच्छरच्छकपोलमूलगलितः पर्यस्तनेत्रोत्पला
बाला केवलमेव रोदिनि लुठल्लोलालकैरश्रुभिः ।। आश्लिष्टा सती, वेपते = कम्पते । सखीषु = वयस्यासु, वासभवनात् = गर्भाऽगारात, निर्यान्तीषु = निर्गच्छन्तीषु सतीषु, निर्गन्तु = निर्यातुम् एव, ईहते-चेष्टते । इत्थं च नवोढा = प्रिया, सम्प्रति = अधुना, वामतया एवं = रतौ प्रतिकूलतया एव, मम = नायकस्य, प्रीत्य = हर्षाय, जाता = संवत्ता । शार्दूलविक्रीडितं वृत्तम् । ।
माने मृदुमुदाहरति-सा पत्यरिति। सा= बाला, पत्युः = बल्लभस्य, प्रथमाऽपराधसमये = प्राथमिकनायिकान्तरसहवासज्ञानकाले, सख्योपदेशं ( सख्येन सुहृद्भावेन ) य उपदेशः (शिक्षाप्रदानम् ), तं विना, सविभ्रमाङ्गवलनावक्रोक्ति: संसूचनं = सविभ्रमा ( सविलासा ) या अङ्गवलना (देहाऽवयवपरावर्तनम्, असंमुखस्व. मितिभावः ), सा च वक्रोक्तिश्च ( कुटिलोक्तिन) तयोः संसूचनम् (प्रकाशम् ) नो जानाति = नो वेत्ति । तहि किं कुरुत इत्याह-स्वच्छरिति । स्वच्छः = अतिनिर्मलः, अच्छकपोलमूलगलितः = अच्छयो: (निर्मलयोः) कपोलयोः ( गण्डफलकयोः) मूलात् (प्रान्तात् ) गलित: ( अवस्रस्तः ), लुठल्लोलाऽलकः = लुठन्तः ( परिवतं. मानाः ) लोला: ( चञ्चलाः ) अलकाः (चर्ककुन्तला; ) येषु तानि, तैः, तादृशः अश्रुभिः = बाष्पः, पर्यस्तनेत्रोत्पला = पर्यस्ते (आकुले ) नेत्रोत्पले (नयकमले) यस्याः सा तादृशी सती, केवलं रोदिति एव = अधूणि मुञ्चति एव, न कश्चिदुपायं जानातीति भावः । एतेन माने मृदुत्वं प्रतीयते । शार्दूलविक्रीडितं वृत्तम् । है, मेरे बोलनेपर भी बात नहीं करती है, बिछोनेपर मुंह फेरकर बैठती है, जबर्दस्तीसे आलिङ्गन करनेपर कांपती है, कमरेसे सखियोंके निकलनेपर वह भी वहाँसे निकलना. ही चाहती है । नवपरिणयवाली मेरी प्रिया इस समय रमणमें कुटिलतासे ही मेरी प्रीतिके लिए हो रही है।
मानमें मदु-वह ( युवति ) अपने पतिके पहले अपराध ( दूसरी नायिकासेसम्पर्क ) के समय में सखीके उपदेशके विना विलासपूर्वक शरीरको सम्मुख न करना और कुटिल वचन कहना कुछ भी नहीं जानती हैं । निर्मल कपोलोंके प्रान्तमागसे गिरे हुए, चञ्चल अलकोंसे सम्बद्ध निर्मल आसुओंसे आकुल नेत्रकमलोंसे युक्त होकर केवल रोती है।