SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः कथिता मुदुश्च माने समधिकलज्जावती मुग्धा ॥ ५८ ॥ तत्र प्रथमावतीणयौवना यथा मम तातपादानाम्मध्यस्य प्रथिमानमेति जघनं, वक्षोजयोर्मन्दता दूरं यात्युदरं च, रोमलतिका नेत्रार्जवं धावति । कन्दपं परिवीक्ष्य नूतनमनोराज्याभिषिक्तं क्षणा ___दङ्गानीव परस्परं विदधते निर्लुण्ठनं सुभ्रषः । १. प्रथमाऽवतीणंसदनविकारा = प्रथमाऽवतीर्णः ( प्रागुत्पन्नः ), मदनविकारः ( मन्मथविकृति: ) यस्याः सा २. रतौ = रमणे, वामा = कुटिला, प्रतिकूलेत्यर्थः ३..माने = प्रणयकोपे, मृदुः-कोमला, ४ समधिकलज्जावती-प्रचुरखीडोपेता ५. मुग्धाया इति भेदाः भवन्ति ।। ५८ ।। ___ इत्थं च मुग्धायाः पञ्चभेदाः प्रकीर्तिताः । तत्र प्रथमाऽवतीर्णयौवनामुदाहरति मध्यस्येति । जंघनं = कटिपुरोभागः, सुध्रुव इति भावः, एवं परत्राऽपि । मध्यस्य = अवलग्नस्य, प्रथिमानं = मृथत्वं, स्थूलत्वमिति भावः । एति = प्राप्नोति । सुध्रुवो मध्यस्य या पृथुता सा जघनं प्राप्नोति, अत: मध्यं कुशं, जघनं सुन्दर्याः स्थूलं वर्तत इति भावः । वक्षोजयोः = सुभ्रवः पयोधरयोः, मन्दता = अल्पता, दूरम् = अत्यन्तम्, उदरंजठरं, याति = प्राप्नोति, उदरस्य स्थूलता पयोधरी प्राप्नोतीति भावः । रोमलतिका = लोमराजिः, नेत्राऽऽर्जवं = नयनसरलतां, धावति = शीघ्रं गच्छति, नेत्रं च रोमलतिकायाः कौटिल्यं प्राप्तुत इति भावः । अतः सुध्रुव: सुन्दर्याः, अङ्गानि = जघनादयो देहावयवाः, कन्दपं = कामदेवं, नूतनमनोराज्याभिषिक्तं = प्रत्यप्रचेतोराज्ये गृहीताऽभिषेकं, परिवीक्ष्य = दृष्ट्वा, परस्परम् = अन्योन्यं, निलुण्ठनं परिमोषणव्यापारम्, अन्योन्य-, वस्त्वपहरणं, विदघते इव = कुर्वन्ति इव । उत्सवे जना यथा मिथः पदार्थाऽपहरणं कुर्वन्ति तथैव सुन्दर्या अङ्गान्यपि मिथो गुणापहरणं कुर्वन्तीति भावः । ग्रन्थकारस्य ततपादानां पद्यमिदम् । शार्दूलविक्रीडितं वृत्तम् । अत्रोत्प्रेक्षाऽलखारः।। (प्रतिबन्धडालनेवाली) ३. अभिमान करनेमें कोमल स्वभाववाली ४. और अधिक लज्जासे युक्त ५ ये पाँच भेद होते हैं । प्रथमाऽवतीर्णयौवना मुग्धाका उदाहरण ग्रन्थकारके पिताक है कमरकी स्थूकताको सुन्दरीके कटिका पूर्वभाग ले रहा है, स्तनोंको मन्दता दूर उदरको प्राप्त कर रही है । रोमपङ्क्ति नेत्रोंकी सरलताको प्राप्त करती है । कामदेवको नूतन मनके राज्यमें अभिषिक्त देखकर सुन्दरीके अङ्ग मानों परस्पर वस्तुकी लूटखसोट कर रहें हैं।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy