________________
१२८
साहित्यदर्पणे
तत्र-
शूरता दक्षता सत्यं महोत्साहोऽनुरागिता | नीचे घृणाधिके स्पर्धा यतः शांमेति तां विदुः ।। ५१ ।।
तन्त्रानुरागिता यथा
अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत् । उदधेरिव निम्नगाशतेष्यभवन्नास्य विमानना कचित् ॥ एवमन्यदाप | अथ विलासः-
धीरा दृष्टिर्गतिचित्रा विलासे सस्मितं वचः ।
शाभां लक्षयति शूरतेति । शूरता = शौर्य, दक्षता = क्षिप्रकारता, सत्यं = तथ्यं महोत्साहः = महान् ( गुरुतर: ) य उत्साहः ( अध्यवसाय: ) । अनुरः गिता = स्नेहभाव:, नीचे = अधमे, घृणा = जुगुप्सा, अधिके = स्वाऽपेक्षया अधिकतरे, स्पर्धा = संघषधीः, यतः = यस्याः, तां " शोभा" इति विदुः = जानन्ति ।। ५१ ।।
तत्र अनुरागितामुदाहरति- प्रहमेवेति रघुवंशस्थमजवर्णन मिदम् । प्रकृतिषु = प्रजासु मध्ये, सर्वः = सकलो जनः, अहम् एव = अन्यो नेत भावः, महीपतेः = राज्ञः, मतः= अभिमतः, अनरागभाजनत्वेनेति शेषः । इति इत्थम् अचिन्तयत् = चिन्तितवान ।
=
अत्र दृष्टान्तं प्रदर्शयति - उदधेरिति । उदधेः समुद्रस्य नायकस्य, निम्नगाशतेषु इव = नदीशतेषु इव, अस्य = अजस्य, क्वचित् = कुत्राऽपि जने, विमानना = तिरस्कारः, न अभवत् = न आसीत्, उपमालङ्कारः । अत्र अजस्य अनुरागिताऽऽत्मशोभागुणः प्रदर्शितः । एवम् = इत्थम्, अन्त्राऽपि = शूरतादिरूपगुणेऽपि उदाहरणं मृग्यम् । विलासगुणं लक्षयति-- घोरेति । विलासे = तन्नामके गुणे, नायकस्य दृष्टि: = नयनं, धीरा = चाल्यरहिता गतिः = गमनक्रिया, चित्रा = वैचित्र्यपूर्णा, तथा वचश्च = वचनं च, सस्मितं = मन्दहास्ययुक्तं च भवतीति शेषः ।
शोभा -- शौर्य, दक्षता ( शाघ्र काम करना ), सत्य, महान् उत्साह, अनुराग करना, नीचमें घृणा और अधिक में स्पर्धा इनके हेतुको “शोभा" कहते है ।। ५१ ।। उनमें अनुरागिता जैसे-- राजा अजका वर्णन कहते हैं। प्रजाओं में सब कोई, राजाका में ही अनुरागपात्र हूँ ऐसा समझता था। जैसे समुद्रका सैकड़ो नदियोंमे किसीपर तिरस्कार नही होता था उसी तरह अजका किसीपर भी तिरस्कार नहीं था। इसी तरह शूरता आदि गुणोंका उदाहरण जानना चाहिए ।
विलास -- विलास में दृष्टि गम्भीर हाती है, गति विचित्र होती है और मन्दहास्यपूर्वक वचन होता है ।