________________
तृतीयः परिच्छेदः
१२०
तत्र
उभयोर्भावमुन्नीय स्वयं वदति चोत्तरम् ।
सुश्लिष्टं कुरुते कार्य निसृष्टार्थस्तु स स्मृतः ॥ ४८ ।। उभयोरिति येन प्रेषितो यदन्तिके प्रेषितश्च ।
मितार्थभाषी कार्यस्य सिद्धिकारी मितार्थकः ।
यावद्राषितसंदेशहारः संदेशहारकः ॥ ४९ ।। अथ सात्त्विकनायकगुणा:
शोभा विलासो माधुर्य गाम्भीय धैयतेजसी ।
ललितौदार्यमित्यष्टौ सत्त्वजाः पौरुषा गुणाः ॥ ५० ।। निसृष्टाऽयं लक्षयति-उभयोरिति । उमयोः = येन प्रेषितः (प्रहितः ), यदन्तिके ( यत्समीपे ) प्रेषितश्च तयोः, भावम् = अभिप्रायम्, उन्नाय = ऊहित्वा; स्वयम् = आत्मना, उत्तरं = प्रतिवाक्यं, वदति = कथयति । कार्य च = कृत्यं च; सुश्लिष्टं सुशोभनं, कुरुते विदधाति, स निसृष्टाऽर्थः स्मृतः । अयमुत्तमो दूतः ॥४८॥
___ मिताऽर्थ लक्षयति-मिताऽर्थभाषीति । मितः (परिमितः) यः अर्थः, (अभिः धेयः), तं भाषते तच्छील: अल्पभाषीत्यर्थः । कार्यस्य, सिद्धिकारी-सिद्धि (सफलताम्) करोतीति तच्छीलः, कार्यसाफल्यप्रयोजक इत्यर्थः । एतादृशो दूतो मिताऽर्थको विज्ञेयः ।
सन्देशहारकं लक्षयति यावदिति । यावद्भाषितसन्देशहारकः प्रेरकेण यावद ( यत्परिमाणं यथा तथा ) भाषितः ( अभिहितः ) यः सन्देशः ( वाचिकं ) तं हरति = प्रापयति इति यावद्भाषितसन्देशहारकः । स "सन्देशहारकः ।" अयं दूतेष्वधमः परिकीर्तितः ।। ४९ ॥
सात्त्विकनायकगुणानुद्दिशति-शोभेति। शोमात औदार्यपर्यन्तमष्टौ सत्त्वजाः= सत्त्वगुणोत्पन्नाः, पौरुषाः = पुरुष ( नायक ) निष्ठा गुणा बोध्याः । यद्यपि अनुभाव विशेषाः स्तम्भादयोऽपि सत्त्वजाः, परं ते स्त्रीपुंसोभयनिष्ठा गुणाः, एते तु पुरुषनिष्ठा एवेति विवेकः ।। ५० ॥
निसष्टाऽर्थ-जिससे और जिसके समीप भेजा गया है, दोनोंका अभिप्राय समझ कर जो स्वयम् उत्तर कहता है और कार्यको सम्पन्न करता है वह निसृष्टाऽर्थ" है ।।४८॥
मिताऽर्थ-परिमित भाषण कर कार्यकी सिद्धि करनेवालेको "मिताऽर्थ" कहते हैं।
सन्देशहारक--भेजनेवालेके कहे वाक्य के अनुसार सन्देश देनेवालेको "सन्देशहारक" कहते हैं ।। ४९ ।।
नायकोंका सात्त्विकगण -शोभा, विलास, माधुर्य, गाम्भीर्य; धर्य, तेज; ललित और औदार्य ये आठ नायकोंके सात्त्विक गुण हैं ॥ ५० ॥