________________
१२६
साहित्यदर्पणे
ब्रह्मविदो वेदविदा, आत्मविदो वा। अत्र च
उत्तमाः पीठमर्दाद्या:आयशब्दान्मन्त्रिपुरोहितादयः।
. -मध्यौ विटविषको । तथा शकारचेटाया अधमाः परिकीर्तिताः ।। ४६ ॥ पाचशब्दात्ताम्बूलिकगान्धिकादयः । अथ प्रसङ्गावदूतानां विभागगर्भलक्षणमाह
निसृष्टार्थों मितार्थश्च तथा संदेशहारकः ।
कार्यप्रेष्यात्रिधा दूतो दूत्यश्चापि तथाविधाः ॥ ४७ ॥ तत्र कार्यप्रेष्यो दूत इति लक्षणम्।
सहायान्विमजत-उत्तमा इति । पीठमर्दाद्याः = पीठमर्दप्रभृतयः । पीठमर्दलक्षणं प्राक्प्रतिपादितम् । आद्यशब्दान्मन्त्रिपुरोहितादयः । मध्याविति । विटविदूषको विट: "संभोगहीनसम्पदि"त्यादिलक्षणप्रतिपादितः, विदूषक: "कुसुमवसन्ताभिद्य" इत्यादिलक्षणप्रतिपादितः । एतो मध्यो = मध्यमो ज्ञेयो। तथा प्राकारचेटाद्या:-शकारः "मदमूर्खताऽभिमानी"त्यादिलक्षणलक्षितः, चेटः = मृत्यः, आद्यशब्दात् ताम्बूलिकगान्धिकादयः अधमा: परिकीर्तिताः ।। ४६ ॥
दूतानां विभागगर्भ लक्षणं प्रतिपादयति-निसष्टार्थ इति । कार्यप्रेष्यत्वं दूतत्वमिति दूतलक्षणम् । ते च दूताः-निसृष्टार्थों मिताऽर्थः सन्देशहारकश्चेति त्रिधा= त्रिप्रकाराः । दूत्यश्चाऽपि तथाविधाः = तादृश्यः, निसृष्टाऽर्थाः मिताऽर्थाः, सन्देश हारिकाश्नेति त्रिप्रकायाः ।। ४७ ॥
"ब्रह्मविदः" इस पदका अर्थ वेद अथवा आत्माको जाननेवाले ऐसा है । यहांपर पीठमद, मन्त्री और पुरोहित आदि उत्तम सहायक माने जाते हैं। विट और विदूषक मध्यम सहायक हैं तथा शकार और चेट तमोली और गन्धी आदि अधम सहायक माने जाते हैं ।। ४६ ॥
____ अब प्रसङ्गसे विभागपूर्वक दूतोंका लक्षण करते हैं कार्यप्रेष्य (कार्यमें भेजेजानेवाले ) को "दूत' कहते हैं । उसके तीन भेद होते हैं, निसष्टाऽर्थ, मिताऽर्थ और -सन्देशहारक । दूतियां भी वैसी ही होती हैं ।। ४७ ।।