SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः ११९ किन्त्वन्ये ऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो दृष्टिं निक्षिपतीति विश्वनियता मन्यामहे दु:स्थितम् ।। -शठोऽयमेकत्र बद्धभावो यः । दर्शितवहिरनुरागो विप्रियमन्यत्र गूढमाचरति ॥ ३७॥ यः पुनरेकस्यामेव नायिकायां बद्धभावो द्वयोरपि नायिकयोबहिदशितानुरागोऽन्यस्यां नायिकायां गूढं विप्रियमाचरति स शठः। यथा'शठान्यस्याः काशीमणिरणितमाकर्ण्य सहसा यदाश्लिष्यन्नेव प्रशिथिलभुजग्रन्थिरभवः । जनित: अहङ्कारः, नवाऽस्ति = नव वर्तते। किन्तु = परन्तु, अन्ये = अपरे, जनाः = युवतिजना इति भावः, वदन्ति = कथयन्ति । सुभगः = सुन्दरः, अस्याः= ममेति भावः, प्रियः = वल्ल ::', निरिति भावः । अन्यतः = अन्यस्यां, ललनायां, मदतिरिक्तायामित्यर्थः । दृष्टि = नेत्र, न निक्षिपति = नो विन्यस्पति, इति, इयता = एतावता, भाषणेन, विश्वं = विश्ववति ललनावृन्द, दुःखितं = दुःखेन स्थितं, मन्यामहे = जानीमहे, मदपेक्षयाऽल्पसौभाग्यादिति भावः । अत्र नायकस्यकस्यामेव नायिकायां निस्तत्वा. दनुकूलनायकत्वम् । शठनायक लक्षयति-शठोऽयमिति । यः = नायकः, एकत्र = एकस्यां नायिकायां, बदभावः = कृताऽनुरागः, दशितबहिरनुरागः = दर्शितः ( प्रदर्शितः ) बहिर• नुरामः = ( बाह्यप्रीतिः ) येन सः, उभयत्रेति शेषः । अन्यत्र = अन्यस्यां, गूढ-गुप्तं, विप्रियम् = अप्रियम् । आचरति = विदधाति ॥ ३७॥ ___ शठनायकोदाहरणं यथा-शठेति । हे शठ = हे धूर्त !, आश्लिष्यन् एव %3D आलिङ्गनेव, मत्सखीमिति भावः। सहसा = अकित एव, काञ्चीरणितं = रशनाझङ्कारम्, आकर्ण्य = श्रुत्वा, अन्यस्या नायिकाया इति शेषः । प्रशिपिलभुजयन्यिः - प्रशिथिलः ( प्रकर्षेण श्लथः ) भुजग्रन्थिः (बाहुवेष्टनम् ) यस्य सः, अभवः बभूः । ही है । किन्तु और लोग कहते हैं कि "इसका प्रिय दूसरी स्त्रीमें दृष्टिपात नहीं करता है" ऐसे कथनसे मैं विश्वकी अन्य स्त्रीको दुःख में स्थित समझती हूँ। ___शठका लक्षण करते हैं-जो एक ही नायिकामें अनुराग कर दोनों नायिकाओंमें बाहरी अनुराग दिखलाकर अन्य नायिकामें गुप्तरूपसे अप्रिय आवरण करता है उसे "शठ" नायक कहते हैं । ३७ ॥ ___ उदाहरण-नायिकाकी सखी शठ नायकसे कहती है-हे शठ ! दूसरी नायिका. की काञ्चीके रत्नोंका शब्द अकस्मात् सुनकर अपनी नायिकाको मालिङ्गन करनेके समयमें ही तुमने बाहुबन्धनको शिथिल कर डाला। इस बातको मैं कहाँ कहूँ?
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy