________________
११३
साहित्यदर्पणे
अथ धीरप्रशान्त:
सामान्यगुणभूयान् द्विजादिको धीरशान्तः स्यात् ॥ ३४ ॥ यथा-मालतीमाधवादी माधवादिः । एषां च शकारादिरूपत्वे भेदानाह
एमिदक्षिणधृष्टानुकूलशठरूपिभिस्तु षोडशधा ।
तत्र तेषां धीरोदात्तादीनां प्रत्येकं दक्षिणधृष्टानुकलशठत्वेन षोडशप्रकारो नायकः।
. एषु त्वनेकमहिलासमरागो दक्षिणः कथितः ।। ३५ ।।
द्वयोस्त्रिचतुःप्रभृतिषु नायिकासु तुल्यानुरागो दक्षिणनायकः । यथा-स्नाता तिष्ठति कुन्तलेश्वरसुता, बारोऽगराजस्वसु.
धीरप्रशान्तं लक्षयति-सामान्यगणेरिति । सामान्य गुणः = त्यागित्वप्रभृतिभिर्नायकसाधारणगुणः, भूयान् = प्रचुरः, द्विजादिकः = ब्राह्मणादिः, एतादृशो नायको धीरप्रशान्तः स्यात् । यथा मालतीमाधवादी माधवादिः ॥ ३४ ॥
एषा च शृङ्गारादिरूपत्वे पुनश्चतुरो भेदानाह-एभिरिति । एभिः = धीरोदातादिभिः । नोडशधा = षोडशप्रकारो नायकः । दक्षिणनायकं लक्षयति--एग्विति । एषु = दक्षिणादिषु मध्ये । अनेकमहिलासमरागः = अनेकमहिलासु (द्वित्रिचतुःप्रभृतिषु नायिकासु) समराग ( तुल्यानुरागः) नायकः, दक्षिणः कथितः ॥ ३५॥
दक्षिणमुदाहरति-नातेति । अन्तःपुरस्थितासु सकलनायिकासु कस्यचिद्राज्ञो दाक्षिण्यं प्रतिपादयति कश्चिदन्तःपुरचरः। कुन्तलेश्वरसुता = कुन्तलेश्वरस्य (कुन्तल. देशाधिपतेः) मुता ( राजकुमारी), स्नाता - ऋतुस्नाता, तिष्ठति = भवत्सङ्गमं प्रतीक्षत इति भावः । अङ्गराजस्वसुः = अङ्गराजस्य (अङ्गदेशपतेः ) स्वसुः (भगिन्या.)
पीरप्रशान्त-स्यागी कृती इत्यादि सामान्य गुणों से युक्त ब्राह्मण आदि "धीरशान्त" नायक होता है । जैसे मालतीमाधव आदिमें माधव आदि ॥ ३४ ॥
इन नायकोके शृङ्गार आदि रूपमें अन्य भेदोंको कहते हैं दक्षिण, धृष्ट अनुकूल और शठ इन भेदोंसे धीरोदात्त आदि नायकोंके भेद सोलह होते हैं ।
उन धीरोदात आदि नायकोंके प्रत्येकमें दक्षिण, धृष्ट, अनुकूल और शठ इस प्रकार "नायक" सोलह भेद होते हैं, यह भाव है।
दक्षिण-इनमें अनेक नायिकाओंमें तुल्यरूपसे अनुराग करनेवाले नायकको दक्षिण" कहते हैं ॥ ३५॥
दो, तीन, चार इत्यादि नायिकाओंमें तुल्य प्रेम रखनेवाला "दक्षिण" मायक होता है ! जैसे कि-राजाके अन्तःपुरमें अधिकृत कोई पुरुष कहता है । कुन्तल देशके राजाको पुत्रो ऋतुस्नान करके स्थित हैं, महाराजके पास रहनेकी पारी अङ्ग देशके राजागी