SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ११२ साहित्यदर्पणे प्रतीयमानाः प्रथमं खण्डशो यान्त्यखण्डताम् ।।' इति । 'परमार्थतस्त्वखण्ड एवायं वेदान्तप्रसिद्धब्रह्मतत्त्वद्वदितव्यः' इति च । अथ के ते विभावानुभावव्यभिचारिण इत्यपेक्षायां विभावमाह-- __रत्याधुबोधका लाके विभावाः काव्यनाटघयोः । ये हि लाक रामादिगतरतिहासादीनामुबोधकारणानि सीतादयस्त एव काव्ये नाट्य च निवेशिताः सन्तः 'विभाव्यन्ते आस्वादाकुरप्रादुर्भावयोग्याः क्रियन्त सामाजिकरत्यादिभावा एभिः' इति विभावा उच्यन्ते । खण्डअः = भिन्नरूपेण, प्रतीयमाना: = ज्ञायमानाः सन्तः, अखण्डता = व्यञ्जनया एकरूपता, यान्ति-प्राप्नुवन्ति । अत्र सात्त्विकभावानामनुभावान्तर्गतत्वेऽपि गोबलीवर्दन्यायेन पार्थक्येन ग्रहणम् । अय = रस, परमाऽर्थतस्तु = वस्तुतस्तु, वेदान्तप्रसिद्धब्रह्मतत्त्ववत् = वेदान्तप्रसिद्धं ( ब्रह्मविद्याविख्यातम् ) यद् ब्रह्मतत्त्वं तद्वत् (तत्तुल्यम्) अखण्ड एव, वेदितव्यः ज्ञातव्यः यया व्यवहारदशायां धटपटादिभेदेन पदार्थानां भिन्नरूपेण प्रतीतावपि ब्रह्म. रूपेण ऐक्यप्रतीतिस्तथैव रसस्य विभावादिरूपेण भिन्नत्वेऽपि व्यञ्जनया एकरूपेण प्रतीतिरिति भावः। अथ विभावादीनां जिज्ञासायां प्रथम विभावं प्रतिपादयति रत्यायुद्बोधका इति । लोक = संसारे, रत्याद्य द्बोधकाः = रत्यादेः, ( भापस्य ) उद्बोधकाः ( उद्बोधकारका: ) काव्यनाट ययोः (श्रव्यदृश्यकाब्ययोः ) विभावाः । विवृणोति-ये होति । ये हि, लोके = जगति, रामादिगतरतिहासादीनां = रामादिगताना ( रामादिनायकस्थितानाम् ) रतिहासादीनाम् ( तत्तत्स्थायिभावानाम् ) उद्बोधकारणानि = प्रादुर्भावहेतवः, सीतादयः, ते एव, काव्ये = श्रव्यकाव्ये, नाट्य च = दृश्यकाव्ये च, निवेशिताः= स्थापिताः सन्तः, विभाव्यन्ते = विभावनाविषयीक्रियन्ते, विशेषेण आस्वादाऽङ्करप्रादुर्भावयोग्याः क्रियन्ते, सामाजिकरत्यादिभावाः = प्राश्निकरत्यादिभावा एभिरिति विभावा इत्युच्यन्ते । भाव ये पहले खण्डशः प्रतीत होते हैं पीछे अखण्ड स्वरूपको प्राप्त करते हैं। वास्तवमें यह वेदन्ति प्रसिद्ध ब्रह्मत्वके समान अखण्ड ही है यह जानना चाहिए । ____ अब वे विभाव, अनुभाव और व्यभिचारी भाव क्या है ? ऐसी अपेक्षामें विभावको कहते हैं-रत्यादीति । लोकमें जो रति आदिके उद्बोधक हैं, वे काव्य (श्रव्य ) और नाटय ( दृश्यकाब्य ) में "विभाव" कह जाते हैं । ये होति । लोकमें जो राम आदिमें प्राप्त रति और हास आदिके उद्बोधके कारण सीता आदि हैं, वे ही सब श्रव्य काव्य और दृश्यकाब्यमें निवेशित होते हुए
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy