________________
तृतीयः परिच्छेदः
१११
प्रमोदनिद्रामुपेयाः' इति च । 'अभिन्नोऽपि स प्रमात्रा वासनोपनीतरत्यादितादात्म्येन गोचरीकृतः' इति च। ज्ञानस्य स्वप्रकाशत्वमनङ्गीकुर्वतामुपरि वेदान्तिभिरेव पातनीयो दण्डः । तादाम्यादेवास्याखण्डत्वम् ।
- रत्यादयो हि प्रथममेकेशः प्रतीयमानाः सर्वेऽप्येकीभूताः स्फुरन्त एव रसतामापद्यन्ते । तदुक्तम्--
'विभावा अनुभावाश्च सात्त्विका व्यभिचारिणः । होरात्रः पंत्रो वर्षेण देवतः ।" इत्युक्तसमयपरिच्छिन्नं, प्रमोदनिद्राम्, हर्षनिद्राम्, उपेयाः= प्राप्नुहि । अभिन्नोऽपि = भेदरहितोऽपि, स्वस्मादिति शेषः = सः = सः, प्रमात्रा = सामाजिकेन, वासनोपनीतरत्यादितादात्म्येन = वासनया ( संस्कारविशेषेण ), उपनीतः ( काव्शऽनुभवसमये उपस्थापितः ), यो रत्यादिः, तस्य, तादात्म्येन ( अभेदेन) गोचरीकृतः = विषयीकृतः ।
ननु ज्ञानस्याऽनुव्यवसायेनैव ग्रहो भवति, कथं ज्ञानरूपस्य रसस्य त्वत्रकाशत्वमिति वदतो नैयायिकानाक्षिपति-ज्ञानस्येति । ज्ञानस्य स्वप्रकाशत्वम्, अनङ्गीकुर्वताम् = अस्वीकुर्वताम्, उपरि, वेदान्तिभिरेव = अद्वैतवादिभिरेव, दण्ड: पातनीयः । नैयायिकानां मते अनुव्यवसायेनैव ज्ञानं भवति, तथाहि अयं घट इति प्रत्यक्षानन्तरं, घटमहं जानामीत्यनुव्यबसायेनैव घटज्ञानं भवति अतः कथं ज्ञानस्य स्वप्रकाशत्वमिति । वेदान्तिनस्तन्मतं नौ मन्यन्ते । ज्ञानस्य अनुव्यवसायेन ज्ञानं भवति चेत् अनुव्यवसायस्याऽपि तृतीयेन ज्ञानेन, एवं तस्याऽप्यपरेण वेति अप्रामाणिकाऽनन्तरूपा कल्पना अनवस्थाऽपरपर्याया आपतेदतः ज्ञानस्य स्वतः प्रकाशत्वमङ्गीकर्तव्यमिति भावः ।
तादात्म्यात्, ज्ञानस्य अभेदात् एव, अस्य = रसस्य, अखण्डत्वम् । रत्यादयः= भावाः प्रथम प्राक्, एकैकशः = एककत्वेन, प्रतीयमानाः=ज्ञायमानाः, सर्वेऽपि = सकला अति, एकीभूताः = एकरूपतामापन्नाः, स्फुरन्त एव =चिद्भावं प्राप्नुवन्त एव, रसतां = रसभावम्, आपद्यन्ते = प्राप्नुवन्ति । तदुक्तम् । तत्र शिष्टसम्मतिं प्रदर्शयति-- विभावा इति । विभावा अनुभावाः सात्त्विक व्यभिचारिणश्च भावाः, प्रथम = प्राक;
वह रस आत्मस्वरूपसे अभिन्न होकर भी सामाजिकसे वासना (संस्कारविशेष). से उपस्थापित रत्यादिके तादात्म्य ( अभेद) से गृहीत होता है।
ज्ञानके स्वप्रकाशत्वको स्वीकार न करनेवाले नैयायिकोंपर वेदान्तियोंको ही दण्ड देना चाहिए । ज्ञानके साथ तादात्म्य होनेसे ही रसकी अखण्डता है।
रति आदि भाव पहले एक एक करके प्रतीत होकर सब एकरूप होकर चिद्भावको प्राप्त करते हुए ही रसरूपको प्राप्त करते हैं ।
कहा भी है-विभावा इति । विभाव, अनुभाव, सात्त्विकभाव और व्यभिचारी