________________
११०
- साहित्यदर्पणे
ततोऽस्य स्वप्रकाशत्वमखण्डत्वं च सिध्यति ।। २८ ।।
यदि रत्यादिकं प्रकाशशरीरादतिरिक्तं स्यात्तदेवास्य स्वप्रकाशत्वं न सिध्येत्, न च तथा, तादात्म्याङ्गीकारात् । यदुक्तम्-'यद्यपि रसानन्यतया चर्वणापि न कार्या, तथापि कादाचित्कतया कार्यत्वमुपकल्प्य तदेकात्मन्यनादिवासनापरिणतिरूपे रत्यादिभावेऽपि व्यवहार इति भावः' इति । 'सुखादितादात्म्याङ्गीकारे चास्माकी सिद्धान्तशय्यामधिशय्य दिव्यं वर्षसहस्रं भवेत् । अतः अस्मात् कारणात्, अस्य-रसरय स्वप्रकाशत्वम अखण्डत्वं च सिद्धयति पूर्वाऽभिहितरीत्येति भावः ।। २८ ।।
___वृत्तो विवृणोति । रत्यादिकं-रतिविभावादिभावसमूहः, प्रकाशशरीरात ज्ञानस्वरूपात अतिरिक्तं-भिन्नं, स्यात् यदि भवेच्चेत्, तदा एव = तर्हि एव, अस्य-रसस्य, स्वप्रकाशत्वं-स्वतः प्रकाशमानत्वम्, न सिद्धयत्-नो निष्पद्यत, न च तथा : रत्यादिकं प्रकाशशरीरात् अतिरिक्तं न, तादात्म्याऽङ्गीकारात्-रत्यादितज्ज्ञानयोरक्याऽभ्युपगमात् ।
अत्राऽर्थे अभियुक्ताऽभिमतमाह-यद्यपि रसाऽनन्यतया रसात् अभिन्नत्वेन, चर्वणा = आस्वादनं, न कार्या = न कार्यरूपा, न जन्येति भावः, तथाऽपि, कादाचित्कतया= कदाचिद्भवत्वेन, कार्यत्वं = कार्यरूपत्वम्, उपकल्प्य = आरोप्य, चर्वणा. मिति शेषः, तदेकात्मनि = चर्वणकस्वरूपे, अनादिवासनाया: = चिरन्तनसंस्कारविशेषस्य; परिणतिरूपे = परिणामस्वरूपे, रत्यादिभावेऽपि = रत्यादिस्थायिभावेऽपि, व्यवहार: लक्षणया विभावादिकार्यत्वेन चर्वणाया व्यवहार इति भावः । सुखादिता. हात्म्याङ्गीकारेः-रसस्य सुखचैतन्यचमत्काराऽभेदस्वीकारे, आस्माकिनीम् अस्मदीयाम, अलङ्कारशास्त्रसम्बन्धिनीमिति भावः । सिद्धान्त शय्यां = रस आनन्दमयः चिन्मयश्चमकारमयश्च इत्याकारकः, सिद्धान्तः = राद्धान्त एव, शय्या = विश्रामस्थानं, तत् अधिशय्य = आश्रित्य; दिव्यं = दिविभवं, वर्षसहस्रं = हायनसहस्रं, "मासेन स्यादहोता है अतः रसका स्वप्रकाशत्व और अखण्डत्व सिद्ध होता है ।। २८ ॥
यदीति । रति आदि प्रकाश ( ज्ञान ) स्वरूपसे अतिरिक्त होगा तो उसका स्वप्रकाशत्व अखण्डत्व सिद्ध नहीं होगा । परन्तु ऐसा नहीं, रत्यादि ज्ञानको तादात्म्य स्वीकार किया गया है । जो कि कहा गया है-"यद्यपि रससे भिन्न न होनेसे उसकी चर्वणा ( आस्वादन ) भी कार्य नहीं है, तथापि वह चर्वणा ( आस्वादन ) कभी होती है कभी नहीं होती है इसलिए उसके कार्यत्वकी कल्पना करके उस चर्वणासे एकात्मा ( एकरूप.) और अनादि वासनाके परिणामस्वरूप रत्यादि भावमें भी कार्यका औपचारिक व्यवहार किया गया है । यह भाव है। सुखादीति । रसके सुख, चैतन्य और चमत्कारके साथ तादात्म्य ( अभेद ) के अङ्गीकारमें हमारी सिद्धान्त शय्यामें सोकर देवताओंके एक हजार वर्षों तक आप सुखनिद्राको प्राप्त करें।