SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः १०९ यद्यपि रसाभिन्नतया चर्वणस्यापि न कार्यत्वं, तथापि तस्य कादाचित्कतया उपचरितेन कार्यत्वेन कार्यत्वमुपचर्यते । अवाच्यत्वादिकं तस्य वक्ष्ये व्यञ्जनरूपणे ॥ २७ ॥ तस्य रसस्य । आदिशब्दादलक्ष्यत्वादि । ननु यदि मिलिता रत्यादयो रसास्तत्कथमस्य स्वप्रकाशत्वं कथं वाऽखण्डत्वमित्याह रत्यादिज्ञानतादात्म्यादेव यस्माद्रसो भवेत् । रसचर्वणयोरभिन्नत्वेन कथं चर्वणस्य निष्पत्तिरित्याशङ्कय परिहरतियद्यपीति । यद्यपि रसाभिन्नतया, चर्वणस्य, अपि = आस्वादनस्य अपि, कार्यत्व न = जन्यत्वं न, तथाऽपि-चर्वणस्य कार्यत्वाऽभावेऽपि, तस्य = चर्वणस्य, कादाचित्कतया = आविर्भावतिरोभाववशेन कदाचिद्भावत्वेन, उपचरितेन = लक्षणया प्रतीतेन, कार्यत्वेन= जन्यत्वेन । कार्यत्वं-जन्यत्वम्, उपचर्यते-आरोप्यते । रसस्य अवाच्यत्वादिकं प्रति जानीते-प्रवाच्यत्वादिकमिति । तस्यरसस्य, अवाच्यत्वादिकम् =अवचनीयत्वादिकम् , आदिशब्दादलक्ष्यत्वादि, व्यञ्जनरूपणे व्यञ्जना. निरूपणे, पञ्चमपरिच्छेद इति भावः । वक्ष्ये कथयिष्यामि ।। २७ ॥ ___ रसस्य स्वप्रकाशत्वमखण्डत्वं च आशङ्कते-नन्विति । ननु मिलिता: = विभावाऽनुभावसञ्चारिभावः संमिलिताः, रत्यादयः = स्थायिभावाः, रसा यदि = शृङ्गारादयश्चेत्, तत् = तहि, अस्य = रसस्य, कथं = केन प्रकारेण, स्वप्रकाशत्वं "सत्त्वोद्रेकादखण्डस्य प्रकाशानन्दचिन्मयः” इत्युक्तप्रकारेण स्वप्रकाशत्वमखण्डस्व च ? इप्याशङ्कय समाधत्ते-रत्यादिज्ञानेति । यस्मात-कारणात्, रत्यादिज्ञानतादात्म्यात् एव-रत्यादिज्ञानस्य तादात्म्यात् ( ऐक्शत् ) ज्ञानरूपतया परिणामादेवेत्यर्थः । रसः उपचारसे कही गई है । यद्यपीति । यद्यपि रससे भिन्न न होनेसे चर्वण ( आस्वादन ) भी कार्य नहीं है, तो भी वह आस्वादन कमी होता है और कभी नहीं भी होता है इसलिए उसके उपचरित कार्यत्वसे उसके कार्यत्वका उपचार किया जाता है । गौणवृत्तिसे रसमें कार्यत्व माना जाता है यह तालर्य है। अवाच्यत्वादिकमिति। रसका अवाच्यत्व और अलक्ष्यत्व आदि व्यञ्जनाके निरूपण (पञ्चम परिच्छेद ) में कहूंगा ।। २७ ।। नन्विति । आशङ्का करते हैं-मिले हुए रति ( स्थायिभाव ) और विभाव आदि यदि रस होते हैं तो रसका स्वप्रकाशत्व और अखण्डत्व कैसे होगा? समाधान कहते हैं-रत्यादीति । रति आदि ज्ञानिके तादात्म्य (ऐक्य )से रस
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy