________________
साहित्यदर्पणे
तरिक पुनः प्रमाणं तस्य सद्भाव इत्याह
प्रमाणं चणेवात्र स्वाभिन्ने विदुषां मतम् ॥ २६ ॥
चर्वणा आस्वादनम् । तच 'स्वादः काव्यार्थसंभेदादात्मानन्दसमुद्भवः' इत्युक्तप्रकारम् ।
ननु यदि रसो न कार्यस्तत्कथं महर्षिणा 'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इति लक्षणं कृतमित्युच्यते
निष्पच्या चर्वणस्यास्य निष्पत्तिरुपचारतः ।
तत्र प्रमाणं प्रतिपादयितुमुपक्रमते-तदिति । तत् = तस्मात्कारणात्, तस्य = रसस्य, सद्भावे = अस्तित्वे, किं, प्रमाणं प्रमाजनकम्, इति = जिज्ञासायाम्, आह = ब्रूते-प्रमाणमिति । स्वाऽभिन्ने = चर्वणाऽभिन्ने, चर्वणस्वरूपे, अत्र = रसे, चर्वणा एव = आस्वादनम् एव, प्रमाणं = प्रमाकरणं, मतम् = अभिमतम् ॥ २६ ॥
वृत्ती विवृणोति-चर्वणेति। चर्वणा = आस्वादनं, तच्च = आस्वादनं च, काव्याऽर्थसंभेदात्--काव्याऽभिधेयज्ञानात्, आत्माऽऽनन्दसमुद्भवः = रसाऽऽनन्दस मुद्भूतः, स्वादः = आस्वादनम्, इत्युक्तप्रकारम् = इत्युक्तलक्षणम् ।
रसस्य कार्यत्वाऽभाव आशङ्कते-नन्विति । कथं = केन प्रकारेण, महर्षिणा = भरतेन । विभावाऽनुभावव्यभिचारिसंयोगात् = विभावादीनां सम्मेलनात्, रसस्य, निष्पत्तिः = उत्पत्तिः । निष्पत्तिपदेन रसस्य जन्यत्वं सूच्यते तत्कथं तस्य कार्यवाभाव इति प्रश्नस्याकूतम् ।
समाधत्ते-निष्पत्यति। चर्वणस्य = काव्याऽर्थभावनेन आस्वादनस्य, निष्पत्या = उत्पत्या, उपचारात् = रसचर्वणयोरभेदारोपात्, अस्य रसस्य, निष्पत्तिः= उत्पत्तिः । अतो रसस्य कार्यत्वं नेति भावः ।
तत्किमिति-रसके अस्तित्वमें क्या प्रमाण है ? सो कहते है
प्रमाणमिति । चर्वणासे अभिन्न इस ( रस में ) प्रमाण चर्वणा ही विद्वानोंसे माना गया है ।। २६ ॥
आस्वादनको "चर्वणा" कहते हैं। वह "काव्यार्थके ज्ञानसे रसके आनन्दसे उत्पन्न स्वादको "आस्वादन ( चर्वणा )" कहते हैं ऐसा लक्षण जानना चाहिए ।
ननु यदीति। रस कार्य नहीं है तो महर्षि भरतने "विभाव अनुभाव और व्यभिचारी भावोंके संयोगसे रसकी उत्पत्ति होती है" ऐसा लक्षण कैसे किया ? ऐसी आशङ्काका उत्तर देते हैं-निष्पत्या इति। रसके आस्वादकी उत्पत्तिसे रसकी उत्पत्ति