________________
तृतीयः परिच्छेदः
१०७
सविकल्पकसंवेद्यःसविकल्पकज्ञानसंवेद्यानां हि वचनप्रयोगयोग्यता, न तु रसस्य तथा ।
-साक्षात्कारतया न च । परोक्षस्तत्प्रकाशो नापरोक्षः शब्दसंभवात् ।। २५ ।। तत्कथय कीहगस्य तत्त्वमश्रुताऽदृष्टपूर्वनिरूपणप्रकारस्येत्याह
तस्मादलौकिकः सत्यं वेद्यः सहृदयरयम् ।
( शब्दसम्बन्धयोग्यताभावात् ) न सविकल्पकसंवेद्यः = रसो न सविकल्पज्ञानज्ञेयः । व्यङ्गयत्वेन शब्दसम्बन्धयोग्यताया अभावेन रसो न सविकल्पकज्ञानेन बोध्यो भवतीति भावः ॥ २४ ॥
वृत्ती विवणोति-सविकल्पकेति। सविकल्पकज्ञानसंवेद्यानां = सविकल्पकज्ञानज्ञेयाना विषयाणां, वचनप्रयोगयोग्यता-शब्दप्रयोगयोग्यता, न तु रसस्य-शृङ्गारादेः, तथा = शब्दप्रयोगयोग्यता, व्यङ्गयत्वादिति भावः ।
रसस्य परोक्षत्वं निषेधति-साक्षात्कारतयेति । साक्षात्कारतया = प्रत्यक्षात्मकतया, रसः, न च परोक्षः = न च प्रत्यक्षभिन्नः, अतीन्द्रिय इतिभावः, अनुभवविषयत्वेन रसो न परोक्ष इति भावः ।
रसस्य प्रत्यक्षत्वं प्रतिषेधति-तत्प्रकाश इति । शब्दसंभवात् = काव्यनिष्ठ-- शब्दोत्पत्तेः, न अपरोक्ष: = न प्रत्यक्षात्मक इति भावः ।। २५ ॥
__रसतत्त्वं प्रतिपादयितुमुपक्रमते-तत्कथयति । तत् = तस्मात्कारणात्, रसे ज्ञाप्यत्वादिधर्माणां प्रतिषेधात्, अश्रुताऽदृष्टपूर्वनिरूपणप्रकारस्य अनाकणिताऽनवलोकितः पूर्वप्रतिपादनधर्मस्य, अस्य = रसस्य, तत्त्वं = स्वरूपं, कीदक् = कीदृशं, कथय-ब्रूहि, इति = जिज्ञासायाम, आह = प्रतिपादयति । तस्माविति । तस्मात् = कारणावः सहृदयः = दयालुभिः, अयं = रसः, सत्यम्, अलौकिकः = लौकिकेतरः, वेद्यः-ज्ञेयः ।
सविकल्पक ज्ञानसे ज्ञेय पदार्थमें वचनप्रयोगकी योग्यता होती है परन्तु रस वसा ( वचनप्रयोगका योग्य ) नहीं।
साक्षात्कार होनेसे रस परोक्ष भी नहीं है । शब्दसे उत्पन्न होनेसे रस अपरोक्ष (प्रत्यक्ष ) भी नहीं है ।। २५ ॥
रसका निरूपण प्रकार न सुना गया न देखा गया है तब फिर इसका तत्व कसा है ?
इस कारणसे रस अलौकिक है और सहृदय जनोंसे ही जाना जा सकता है।