SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पण विभावादिपरामर्शविषयत्वात् सचेतसाम् । परानन्दमयत्वेन संवेद्यत्वादपि स्फुट . २३ ।। न निर्विकल्पकं ज्ञान तस्य ग्राहकमिष्यते । तथाऽभिलाषसंसर्गयोग्यत्वविरहान सः ।। २४ ।। . भूतः एव न जन्योऽपि, ताभ्यां विलक्षणत्वात् अयं रसो वर्तमानोऽपि न । रसस्य कार्यत्वं ज्ञाप्यत्वं च प्रथममेव प्रत्याख्यातम् । कालप्रसङ्गतोऽत्राऽपि प्रतिपादितम् ।। २२ ।। रसस्य निर्विकल्पकज्ञानविषयत्वं निराकरोति--विभावादीति । सचे।सां = सहृदयानां, विभावादिपरामर्शविषयत्वात् = विभावादीनो (विभावाऽनुभावसञ्चारिभावानाम् ) परामर्शविषयत्वात् (विवेननविषयत्वात् )। परानन्दमयत्वेन-परमानन्दस्वरूपत्वेन, संवेद्यत्वात् अपि = ज्ञानविषयत्वात् अपि हेतोः, स्फुटव्यक्तम् ॥ २३ ।। निर्विकल्पकं ज्ञानं = निष्प्रकारकं ज्ञानं, तस्य = रसस्य, ग्राहकं ज्ञापकं, न इष्यते = न अभिलष्यते, निर्विकल्पकज्ञानेन रसो नाऽनुभूयत इति भावः । अयं भावः, ज्ञानं. द्विविधं निर्विकल्पकं सविकल्पकं च । तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकम् । तदुक्तं भाषापरिच्छेदे -"प्रकारताऽऽदिशून्यं हि सम्बन्धाऽनवगाहि तत् ।" इति । प्रकारताविशेष्यतासंसर्गतेतिविविधविषयतारहितं सम्बन्धाऽनवगाहि ज्ञानं निर्विकल्पकामति भावः । रसे विभावादय आनन्दमयत्वं च प्रकारतया भासन्ते, अतः स न निर्विकल्पकज्ञानविषय इति तात्पर्यम् । सप्रकारकं ज्ञानं सविकल्पकम् । रसो निर्विकल्पकज्ञानसंवेद्यो न स्यात्तहि सविकल्पकज्ञानसंवेद्यः स्यादित्यत्राह-तथेति। तथा = तेन प्रकारेण अभिलापसंसर्गयोग्यत्व. विरहात् = अभिलाषः ( शब्द: ), तस्य संसर्गः ( सम्बन्धः ) तद्योग्यताविरहात् इस बातको प्रतिपादित कर चुके हैं । कालके प्रसङ्गसे यहां भी प्रतिपादन किया गया है ॥ २२॥ रस निर्विकल्पक ज्ञानका विषय नहीं है इसको सिद्ध करते हैं-विभावाविति। निष्प्रकारक ( विशेषणताशून्य ) ज्ञानको निर्विकल्पक" कहते हैं, परन्तु सहृदयोंको विभाव आदिका परामर्श ( विशिष्टवैशिष्ट्यावगाही ज्ञान ) विषय होनेसे और परम आनन्दमय होकर ज्ञान हा विषय होनेसे भी निर्विकला ज्ञानसे भी रसकी प्रतीति नहीं होती है ।। २३ ॥ रस सविकल्पक ज्ञानका भी घिषय नहीं है इसे प्रमाणित करते हैं-तथेति । उसी तरह शब्दप्रयोगकी योग्यता न होनेसे घट पट आदि पदार्थों के समान रस सवि. कल्पक ज्ञानसे भी नहीं जाना जा सकता ॥ २४ ।।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy