SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १०४ तस्मान्न कार्यः 1 साहित्यदर्पणे यदि रसः कार्यः स्यात्तदा विभावादिज्ञानकारणक एव स्यात् । ततश्च रसप्रतीतिकाले विभावादयो न प्रतीयेरन् कारणज्ञानतत्कार्य्यज्ञानादीनां युगपददर्शनात् । नहि चन्दनस्पर्शज्ञानं तज्जन्यसुखज्ञानकदा सम्भवति । रसस्य च विभावादिसमूहालम्बनात्मकतयैव प्रतीतेर्न विभावादिज्ञानकारणकत्वमित्यभिप्रायः । = तस्मात् कार्यो न = कार्यस्वरूपो न, विभावादिज्ञानजन्यो नेति भावः । वंसे सत्यपि प्रागभावो यथा जन्यो न तथैव रसोऽपि स जन्यो नेति भावः । वृत्ती विवृणोति यदीति । यदि रसः कार्यः = जन्यः स्यात्, तदा = तह, विभावादिज्ञानकारणकः विभावादिज्ञानं कारणं ( जनकम् ) यस्य सः, एतादृश: स्यात् । विभावादिज्ञानानन्तरमेव रस उत्पद्यतेति भावः । ततश्च = कारणात्, प्रतीत काले = रसज्ञानसमये, विभावादयः विभावाऽनुभावसंचारिणः, न प्रतीयेरन् = प्रतीति• विषया न स्युः । अत्र हेतुमुपपादयति - कारणज्ञानेति । कारणज्ञान-तत्कार्यज्ञानादीनां, युगपददर्शनात् [ = समकालोत्पत्यदर्शनात् । अत्र दृष्टान्तं प्रदर्शयति- न हीति । चन्दनस्पर्शज्ञानं = सुखका रणभूत श्रीखण्डामर्शनज्ञानं, तज्जन्यं ( कार्य ) सुखज्ञानं च = चन्दनस्पर्शजन्यसुखज्ञानं च एकदा एककालाऽवच्छेदेन, न सम्भवति । अयं भावः - सुखकारणचन्दनस्पर्शज्ञान तज्जन्यसुखज्ञानं च योगपद्य ेन न सम्भवति । कार्यनियतपूर्ववृत्तित्वं कारणत्वम्, प्रागभागप्रतियोगित्वं कार्यत्वमिति नियमेन कार्यकारणयोरेककालाऽवच्छेदेन प्रतीतिर्न भवति । फलितमाह - प्रकृते रसस्य = शृङ्गारादेः, विभावादिसमूहालम्बनात्मकतया एव = विभावानुभावसञ्चारिभावसमूहालम्बनात्मकतया एव, प्रतीतेः ज्ञानात्, अत्र एवकारात् समूहालम्बनजन्यत्वव्यवच्छेदः । अतो रसस्य न विभावादिज्ञानकारणकत्वं := विभावादिज्ञानं कारणं यस्य तस्य भावः । ततश्व अप्राप्यकारणान्तरस्य रसस्य न कार्यत्वमिति भावः । विवरण करते हैं - यदीति । रस कार्य होता तो उसका कारण विभाव आदिका ज्ञान होता । तब तो रस ( कार्य ) की प्रतीतिके कालमें कारण विभाव आदि प्रतीत न होते क्योंकि कारणका ज्ञान और उसके कार्यका ज्ञान एक ही समय में नहीं देखे जाते हैं । जैसे कि चन्दनस्पर्श ( कारण ) का ज्ञान और तज्जन्य ( कार्य ) सुखका ज्ञान एक ही समय में संभव नहीं है । विभाव आदि समूहालम्बनात्मक होकर ही विभावादि ज्ञान रसका कारण नहीं है। अतः रस कार्य नहीं है यह अभिप्राय है । रसकी रसकी प्रतीति होने से,
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy