________________
तृतीयः परिच्छेदः
१०३
यदि पुनर्नटोऽपि कायार्थभावनया रामादिस्वरूपतामात्मनो दर्शयेत् तदा सोऽपि सभ्यमध्य एव गण्यते ।
नायं ज्ञाप्यः स्वसत्तायां प्रतीत्यव्यभिचारतः । यो हि ज्ञाप्यो घटादिः स सन्नपि कदाचिदज्ञातो भवति, न ह्ययं तथा; प्रतीतिमन्तरेणाभावात्।
यस्मादेष विभावादिसमूहालम्बनात्मकः ।। २० ॥
रसस्य स्वप्रकाशत्वं ज्ञापयितु ज्ञानान्तरग्राह्यत्वं निराकरोति-नाऽयमिति । अयं रसः न ज्ञाप्यः=न स्वभिन्नप्रत्यक्षविषयः, स्वसत्तायाम् आत्मसद्भावे, प्रतीत्यब्यभिचारतः प्रतीतो ( सभ्यानां ज्ञाने ) अव्यभिचारतः ( व्यभिचाराऽभावात् ), साक्षात्कार विना असत्त्वात्, रसस्तु साक्षात्कारदशायामेव आविर्भवति । अन्यदा तु रत्यादिरेव, घटादित्वसाक्षात्कारदशायामपि घटादिस्तस्तद्वलक्षण्यम् । अतोऽयं ज्ञाप्यो नेति भावः ।। २० ॥
वृत्तौ विवृणोति-योऽयमिति । योऽयं ज्ञाप्यो घटादिः सः सन्नपि भवनपि, कदाचित अज्ञातो भवति, प्रकाशाऽभावे इति भावः । घटादेाप्यत्वात् (ज्ञानविषयत्वात्), अन्धकारादिना तस्य ज्ञानाऽभावेऽपि तस्य सत्तायां न व्यभिचारः। रसस्तु न तथा प्रतीति-ज्ञानम्, अन्तरेण = विना, अभागत् साक्षात्कारे एव तस्य रसत्वं, तदभावे तु स रत्यादिरूपत्वेन अवतिष्ठते, अतस्तस्य स्वप्रकाशत्वं सियति इति भावः ।
___रसस्य कार्यत्वं निराकरोति-यस्मादेष इति । यस्मात् = कारणात्, एषः= रंसः, विभावाऽऽदिसमूहाऽऽलम्बनात्मकः = विभावाऽनुभावसञ्चारिभावसमूहाऊलम्बनज्ञानस्वरूपः ।। २० ॥
नट भी काव्याऽर्थकी भावनासे राम आदिकी स्वरूपताको दिखालाएगा तो वह भी सभ्यके मध्य में परिगणित होता है । रसकी स्वप्रकाशता ज्ञापित करनेके लिए अन्य ज्ञानसे उसकी ग्राह्यताका खण्डन करते हैं-नाऽयमिति । यह रस ज्ञाप्य नहीं है, क्योंकि अपनी सत्ता ( अस्तित्व ) में सामाजिकोंकी प्रतीतिमें व्यभिचारवाला नहीं होता है।
विवरण करते हैं-यो होति । जो घट आदि ज्ञाप्य (दीप आदिसे प्रकाशनीय) होता है, वह कभी कभी विद्यमान होकर भी ( अन्धकार आदिके कारण) प्रतीत (ज्ञात) नहीं होता है। यह रस ऐसा नहीं है क्योंकि प्रतीतिके विना इसकी सत्ता ही नहीं रहती है । रसके कार्यत्वका खण्डन करते हैं-यस्माविति । जिस कारणसे यह रस विभाव, अनुभाव, सञ्चारी भाव और रत्यादि स्थायी भाव इन सबका समूहा. लम्बनात्मक है अतः वह कार्य नहीं है ॥ २० ॥