SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १८ साहित्यदर्पणे काय-कारणसश्चारिरूपा अपि हि लाकतः । रसोद्बोधे विभावाद्याः कारणान्येव ते मताः ।।१४।। ननु तर्हि कथं रसास्वादे तेषामेकः प्रतिभास इत्युच्यते प्रतीयमानः प्रथमं प्रत्येकं हेतुरुच्यते । ततः संमिलितः सर्वो विभावादिः सचेतसाम् ॥ १५ ॥ प्रपाणकरसन्यायाच्चव्यमाणा रसो भवेत् । रूपेण कथं कारणत्वमिति ममाधत्ते-कार्यकारणसंचारिरूपा इति । ते = पूर्वोक्ताः, विभावाद्याः = विभावाऽनुभावसञ्चारिभावाः, लोकतः = लोकव्यवहारात् कार्यकारणसञ्चारिरूपा अपि, रसोद्बोधे = शृङ्गारादिरसाऽऽविर्भावे, कारणानि एव । अयं भावः, लोकव्यवहारात् यद्यपि विभावा रत्यादेः कारणरूपाः, अनुभावाः कार्यरूपाः; सञ्चारिभावाः सहकारिरूपा वर्तन्ते तथाऽपि शृङ्गारादिरसाविर्भावे ते सर्वेऽपि विमावाऽनुभावसञ्चारिभावाः समष्टिरूपेण कारणरूपा अभिमताः । रसास्वादे विभावादीनां कथमेकत्वेन प्रतीतिरित्युपपादयति प्रतीयमान इति । प्रथम = प्राक्, प्रतीयमानः=ज्ञायमानः, विभावादिः, प्रत्येकं, रत्यादि प्रतिहेतुः = कारणम्, उच्यते = अभिधीयते । ततः = प्रत्येकप्रत्ययाऽनन्तरं, संमिलितः= संविलितः, सर्वः = विभावादिः, प्रपाणकरसन्यायातप्रपाणकद्रवसादृश्यात्, चळमाणः = आस्वाद्यमानः, रसः = शृङ्गारादिः, भवेत् । रसस्य चर्वणास्वरूपत्वेऽपि काल्पनिकभेदमाश्रित्य चळमाणत्वम् इति ।। १५ ॥ .. कारिकां विवृणोति यथेति । यथा खण्डमरिचादीनां, खण्डं = शर्कराखण्ड, मरिचादयः = कोलकादयः, प्रपाणकरससाधनपदार्थाः, तेषां सम्मेलनात् = संमिश्रणात, अपूर्व इव = उपकरणद्रव्येभ्यो विलक्षण इव, कश्चित् = अनिर्वाच्यः, आस्वादः = आस्वादनं, प्रपाणकरसे - प्रपाणकद्रवे, संजायते = समुत्पद्यते, विभावादिसंमेलनात् = विभावादिसंमिश्रणाद, इह अपि = अत्र अपि, तथा = रसप्रताातः । अयं भावः । यथा प्रपाणकरसे उपकरणद्रव्याणां खण्डमरिचकर्पूरादीनां संमिश्रणात्प्राविभिन्ना आस्वादाः पर संमिश्रणाऽनन्तरं तेषां समष्टया कश्चिदपूर्व आस्वादः इस आशङ्काका समाधान करते हैं-कार्येति । रसकी अनुभूतिमें अनुभाव, विभाव और सञ्चारी भाव ये तीन लोकमें क्रमके अनुसार कार्य, कारण और सकारी माने गये हैं तो भी वस्तुतः ये समष्टिरूपमें कारण ही माने गये हैं ॥ १४ ॥ तब कैसे रसके आस्वादमें उन तीनोंका एक रसके रूपमें परिणाम होता है इसका समाधान करने हैं -प्रतीयमान इति । पहले प्रतीत होनेवाले विभाव आदि प्रत्येक हेतु कहे जाते हैं तब वे सम विभाव
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy