________________
तृतीयः परिच्छेदः
ननु तथापि कथमलौकिकत्वमेतेषां विभाषादीनामित्युच्यते
विभावनादिव्यापारमलौकिकमुपेयुषाम् ।
अलौकिकत्वमेतेषां भूषणं न तु दूषणम् ॥ १३ ॥ आदिशब्दादनुभावसञ्चारणे । तत्र विभावनं = रत्यादेविशेषेणास्वा. दाकुरणयोग्यतानयनम । अनुभावनमेवम्भूतस्य रत्यादेः समनन्तरमेव रसादिरूपतया भावनम् । सञ्चारणं तथाभूतस्यैव तस्य सम्यक् चारणम् ।
विभावादीनां यथासख्यं. कारणकार्यसहकारित्वे कथं त्रयाणामपि रसोद्बोधे कारणत्वमित्युच्यते
विभावादीनामलौकिकत्वं प्रतिपादयितुमुपक्रमते-नन्विति । तथाऽपि साधा. रणीकरणव्यापारस्वीकरणेऽपि, विभावादीनां कथमलौकिकत्वमिति ।।
समाधत्ते-विभावनावीति । अलौकिकं = लोके पूर्वमविद्यमानं, विभावनादिव्यापार = विभावनाऽनुभावनस चारणव्यापारम्, उपेयुषां = प्राप्तवताम्, एषां = विभा. वाऽनुमावसञ्चारिभावानाम्, अलौकिकत्वं, भूषणम् = अलङ्काररूपम् गुण एव, न तु दूषणं = दोषः ॥ १३ ॥
विवृणोति-विभावनादीत्यत्र आदिशब्दात् अनुभावनसंचारणे ज्ञातव्ये । तत्र विभावनं-र-यादेः भावस्य विशेषेण आस्वादाऽङकुरणयोग्यताया आनयनम् (प्रापणम्)। एवंभूतस्य = रसत्वेन अङ्करणयोग्यताऽनीतस्य रत्यादेः, समनतरमेव = अनन्तरसमय एव, रसादिरूपतया = शृङ्गारादिस्वरूपतया, भावनं = प्रतिपादनम्, सञ्चारणं-तथाभूतस्य एव = तादशस्य एव, रसादिरूपतया भावितस्य एवेति भावः । एतस्य-रत्यादेः, सम्यक् चारणं-परिपोषणम् । विभावादीनां कारणकार्यसहकारित्वेऽपि रसोद्बोधे समष्टि
तथाऽपि विभाव आदियोंकी अलौकिकता कैसे होती है ? इसे प्रतिपादित करते हैं-विभावनादीति । विभावन, अनुभावन और सञ्चारण ऐसे अलौकिक व्यापारको प्राप्त करनेवाले विभावादिकोंका अलौकिकत्व भूषण है दूषण नहीं ।। १३ ॥
विभावनाऽदि० यहाँपर आदि पदसे अनुभावन और सञ्चारणको लेना चाहिए। रति आदि भावोंकी आस्वादके अङ्कुरण = सूक्ष्म रूपसे उत्पत्तिके योग्य बनानेको "विभाव" कहते हैं । तदनन्तर ऐसे रत्यादिको रस आदिके रूपसे प्रतिपादन करनेको "अनुभावन" कहते हैं। तब वैसे रसादिका अच्छी तरहसे चारण अर्थात् परिपोषण करने को "सञ्चारण" कहते हैं । विभाव, अनुभाव और सञ्चारी भावके यथा क्रम ये तीन व्यापार हैं । क्रमसे विभावकी कारणता, अनुभावकी कार्यता और सचारी बाउकी सहकारिता होनेपर भी रसकी अनुभूतिमें इन तीनोंकी कैसे कारणता होती है
७ सा०