SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे. रत्यादयोऽपि साधारण्येनेव प्रतायन्त इत्याह साधारण्येन रत्यादिरपि तद्वत्प्रतीयते ।। ११ ।। रत्यादेशप स्वात्मगतत्वेन प्रतीतो सभ्यानां ब्रांडातकादिर्भवेत् । परगतत्वेन त्वरस्यतापातः। विभावादयोऽपि प्रथमतः साधारण्येन प्रतीयन्त इत्याह परस्य न परस्येति ममेति न ममेति च । तदास्वादे विभावादेः परिच्छेदा न विद्यते ।। १२ ।। रत्यादीनामपि साधारणीक रणव्यापारेण प्रतीतिरिति प्रतिपादयति-साधा. रण्येनेति । तद्वद् =विभावादिवत् । रत्यादिरपि-तत्तद्रसस्थायिभावोऽपि, साधारण्येन= साधारणीकरणव्यापारेण, प्रतीयते = ज्ञायते ॥ ११ ॥ साधारणीकरणस्य सार्थक्यं प्रतिपादयति-रत्यावेरपीति । रत्यादेरपि = स्थायिभावस्य, आत्मगतत्वेन-आत्ममात्रगतत्वेन, प्रतीतो = ज्ञान, सम्यानां = सामाजिकाना, व्रीडातकादिः = व्रीडा ( लज्जा) आतङ्कादिः ( भयादिः ) । सामाजिकसन्निधौ स्वरतिप्रकाशने लज्जा आतहादिश्च भवेदिति भावः । परगतत्वेन = अन्यगतत्वेन, रत्यादिप्रतीताविति श्रेषः। बरस्याऽपातः = अनास्वागतापातः, परगतत्वेन रत्यादिप्रतीतो स्वस्य भास्वादकतत्वं न स्यादिति भावः । अता साधारणीकरणं. सार्थकमिति तात्पयंम् ।. विभावादीनामपि प्रथमतः साधारणीकरणेन प्रतीति प्रतिपादयितुमुपक्रमतेविभावादयोऽपि भावाः, प्रथमतः = रसबोधात्प्राक् । साधारण्येन = साधारणीकरणव्यापारेण । प्रतीयन्ते = ज्ञायन्ते, इति आह = कथयति । परस्यति । स्वादे %D रसास्वादे विषये, परस्य अन्यस्य, रामादेनायकस्य, न परस्य = न रामादेनायकस्य । ममसामाजिकस्य, न मम, इति विभावादेः, परिच्छेदः = निर्धारणं, सम्बन्धविशेषस्य स्वीकारः परिहारो वेति भावः, न विद्यते ॥ १२॥ साधारणीकरण व्यापारसे रति वादियोंकी भी प्रतीति होती है ऐसा प्रतिपादन करते हैं-साधारण्येन । साधारणीकरण व्यापारसे उसी तरह रति आदिकी भी प्रतीति होती है ॥ ११ ॥ सभ्योको स्वगत रूपसे रति आदिकी प्रतीति होगी, तो लज्जा और भय आदि उत्पन्न होंगे, परगत रूपसे प्रतीति होगी तो उनको आस्वादकी अनुभूति नहीं होगी अतः साधारणीकरण व्यापारसे ही सभ्योंको रति आदिकी प्रतीति होती है। इसी तरह विभाव आदि भी पहले साधारणीकरणसे प्रतीत होते हैं यह कहते हैं-परस्येति । रसके आस्वादके समयमें विभाव आदिका यह दूसरेका है अथवा दूसरेका नहीं है, मेरा है अथवा मेरा नहीं है, इसप्रकार सम्बन्ध विशेषका स्वीकार वा परिहार नहीं होता है ॥१२॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy