SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः . व्यापारोऽस्ति विभावादेनाम्ना साधारणीकृतिः । तत्प्रभावेण यस्यासन् पाथोधिप्लवनादयः ॥ ९॥ प्रमाता तदभेदेन स्वात्मानं प्रतिपद्यते । ननु कथं मनुष्यमात्रस्य समुद्रलानादावुत्साहोद्वोध इत्युच्यतेउत्साहादिसमुद्बोधः साधारण्याभिमानतः ।। १० ।। नृणामपि समुद्रादिलङ्घनादौ न दुष्यति । समाधत्ते-व्यापारोऽस्तीति । विभावादेः = आदिपदेन अनुभावसञ्चारि. भाषयोः परिग्रहः, तेन विभावाऽनुभावसञ्चारिभावानां, नाम्ना अभिधानेन, साधारणीकृतिः = साधारणीकरणं, व्यापारः अस्ति, तत्प्रभावेण = साधारणीकरणव्यापारसामर्थ्येन, यस्य = रामादेः, पाथोधिप्लवनादयः = समुद्रलङ्घनादयः, आसन् = अभवन, प्रमाता = सामाजिकः, दृश्यकाव्यस्य द्रष्टा, श्रव्यकाव्यस्य बोद्धेति शेषः । तदभेदेन = रामाद्यभेदेन, समुद्रलङ्घनादिकति शेषः । स्वात्मानं = स्वं, प्रतिपाद्यते % जानाति । साधारणीकरणव्यापारेण सामाजिको रामादावभेदबुद्धघा तद्गतां रतिमनुभवतीति भावः। पुनराशङ्कते-नन्विति । ननु कयं-केन प्रकारेण, मनुष्यमात्रस्य = मानवमात्रस्य सामाजिकस्य, समुद्रलङ्घनादौ-पाथोधिप्लवनादौ, उत्साहोद्बोधः-उत्साहानु. भूतिः । इति = अत्र विषये, उच्यते - कथ्यते, समाधीयत इति भावः । समाधत्ते-उत्साहाजिसमबोष इति । उत्साहादिसमुद्बोधः=उत्साहायनु. भूतिरपि। साधारण्याऽभिमानतः = साधारणीकरणाऽभिमानतः। अत: नृणामपि = मनुष्याणाम् अपि, सामाजिकानां, समुद्रादिलङ्घनादौ पापोधिप्लवनादी, न दुष्यति। व्यापार इति । विभाव आदि = अर्थात् अनुभाव और सचारी भावोंका साधारणीकरण नामका व्यापार होता है। उसके प्रभावसे जिन राम आदियोंका समुद्रलङ्घन आदि कार्य हुए थे ॥९॥ प्रमाता = सभ्य, राम आदिके अभेदसे मैंने ही समुद्रलङ्घन आदि कार्य किया है ऐसा समझने लगता है। मनुष्यमात्रका समुद्रलङ्घन आदिमें कैसे उत्साहका अनुभव , होता है इस शङ्काका परिहार करते हैं-उत्साहादीति । साधारणीकरण व्यापारसे समुद्र लखनके कर्ता राम आदिमें अभेद भावनासे समुद्रलङ्घन आदिमें उत्साह होनेमें दोष नहीं है ॥ १० ॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy