________________
साहित्यदर्पणे
स्यात्तदा श्रीत्रियजरन्मीमांसकादीनामपि स स्यात् । यदि द्वितीया न स्यात्तदा यद्रागिणामपि केषाद्रि सोद्बोधो न दृश्यते तन्न स्यात् ।
उक्तञ्च धर्म्मदत्तेन—
९४
'सवासनानां सभ्यानां रसस्यास्वादनं भवेत् । निर्वासनास्तु रङ्गान्तः काष्ठकुडचाश्मसन्निभाः ॥ इति ।
ननु कथं रामादित्याद्युदुबोधकारणः सीतादिभिः सामाजिकरत्याशु - दुबोध इत्युच्यते
प्रथमा, तदानीन्तनी, न स्यात्तदा श्रोत्रियजरन्मीमांसकादीनाम् = वैदिकप्राचानमीमांसकादीनामपि सा = रसानुभूतिः स्यात् = भवेत्, परभिदानीन्तनवासनाऽभावेन श्रोत्रियादीनां रसानुभूतिनं भवति । द्वितीया = प्राक्तनी वासना, न स्यात्तदा रागिणा = काव्यबोधानुभववताम् अपि रसोदबोधः = रसानुभूतिः, न दृश्यते, परं प्राक्तन वासनाभावेन तेषां रसाऽनुभूतिर्न भवति ।
उक्ताऽर्थ आप्तसंबाद प्रदर्शयति । उक्तं च धर्मदत्तेन - सवासनानामिति । सवासनानां = वासनासहितानां सभ्यानां = सामाजिकानां, रसस्य = शृङ्गारादेः, आस्वादनं भवेत् । निर्वासना = वासनारहितास्तु, रङ्गाऽन्तः = नृत्यशालामध्ये, काष्ठकुडघाऽश्मसंनिभाः = काष्ठं ( दारु ) कुडयम् ( भित्ति: ) अश्मा ( पाषाण ) तैः सदृशाः ( तुल्याः ), रसास्वादनाऽभावादिति भावः । साधारणीकरणव्यापारतः सामाजिकानां त्याद्यद्बोधं प्रतिपादयितुमाशङ्का मुत्थापयति- नन्विति । ननु कथं रामादिरत्याद्य• द्बोधका रणः = रामादीनां ( नायकानाम् ) यो रत्यादि:, ( स्थायिभावः ) तस्य उद्बोध. कारण: ( अनुभूति हेतुभिः ) सीतादिभि: ( नायिकाभिः दृश्यश्रव्यकाव्यप्रतिपादिता: भिरिति शेषः ) सामाजिक रत्याद्य बोधः = सामाजिकानां ( सभ्यानाम् ) यो रत्यादिः, तदुद्बोध: ( तदनुभूति: ) । तद्देशस्थतात्कालिक रामादिरस्याद्य दबोधकारणः अत्रत्येदानीन्तनानां सामाजिकानां कथं रत्याद्य दुबोध इत्याशङ्काबीजमिति भावः ।
• आस्वाद होता । दूसरी ( पूर्वजन्मकी) वासनाको नहीं लेंगे तो कुछ रागियों को भी
•
'रसका आस्वाद नहीं देखा जाता है, वह नहीं होना चाहिए। धर्मंदत्तने कहा भी हैसवासनानामिति । वासना (संस्कारविशेष) वाले सभ्योंको रसका आस्वादन होगा। जिनको वासना नहीं है वे तो रङ्गभूमिके काष्ठ, दीवार और पत्थरोंके समान . अनुभवसे रहित ही रहते हैं ।
आशङ्का करते हैं- नन्विति । काव्य और नाटकमें राम आदि नायककी रति आदिके उद्बोध कारणोंसे अर्थात् सीता आदिसे सामाजिक अर्थात् सभ्य द्रष्टा और श्रोताओं को कैसे रति आदिका उद्बोध होता है ? समाधान करते हैं