SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे भेदमुररीकृत्य कर्मकर्तरि वा प्रयोगः। तदुक्तम्--रस्यमानतामात्रसारत्वात् प्रकाशशरीरादनन्य एव हि रसः' इति । एवमन्यत्राप्येवंविधस्थलेषूपचारेण प्रयोगो ज्ञेयः। नन्वेतावता रसस्याज्ञेयत्वमुक्तं भवति । व्यन्जनायाश्च ज्ञानविशेषत्वाद् द्वयोरेक्यमापतितम् । ततश्च स्वज्ञानेनान्यधीहेतुः सिद्धेऽर्थे व्याजको मतः।। तदुक्तमिति। रस्यमानतामात्रसारत्वात् आस्वाद्यमानतामात्रस्वरूपत्वात् । प्रकाशशरीराव-ज्ञानस्वरूपात, अनन्य: अभिन्नः एव रसः । ज्ञानस्वरूप एवेति भावः । अन्यामाशङ्कां प्रदर्शयति नन्विति। एतावता = प्रबन्धेन, प्रकाशशरीरादनन्य एव रस इति कथनाऽऽनुसारमिति भावः । रसस्य == शृङ्गारादेः, अज्ञेयत्वम् = स्वभिन्नज्ञानाऽग्राह्यत्वमित्यर्थः । स्वेनैव स्वस्य ग्राह्यत्वेन घटादिवज्ज्ञेयत्वाऽसिद्धेरिति भावः । ततश्च रसस्य ज्ञानविशेषत्वमापतितम् । एवं च व्यञ्जनायाश्च वृत्तेः ज्ञानविशेषत्वात् द्वयोव्यञ्जनारसयोः, ऐक्यम् एकत्वं, ज्ञानविशेषत्वमिति भावः, आपतितं, ततश्च कथं रसस्य व्यङ्गयत्वम् । ततश्च = तस्मादेतोः। व्यङ्गयव्यजकमावयोभिन्नतां प्रतिपादयति-स्वज्ञानेनेति। सिद्धे अर्थ स्वज्ञानेन अन्यधीहेतुः व्यञ्जको मतः, यथा दीपः। अन्यथाभावे अस्य कारकात को विशेष इत्यन्वयः । सिदे = निष्पन्ने, न तु साध्य इति भाव:, अर्थे = पदार्थे, स्वजानेन = स्वम्य (व्यजक्रत्वेनाऽभिमतस्य आत्मनः) ज्ञानेन ( बोधनेन ) सह अन्यत्रीहेतुः = अन्यस्य ( व्यङ्गयस्य पदार्थस्य ) धीहेतुः (प्रत्यक्षादिज्ञानकारणम् ) । व्यञ्जकः=ज्ञापकोः हेतुः, मन:-अभिमतः । न खलु दीपो घटादिकं करोति किन्तु सिद्धमेव तं स्वप्रकाशेन प्रकाशयति ज्ञापकहेतृत्वादिति भावः, यया दीपः । आस्वाद्यते अर्थात् रस स्वयम् ही आस्वादित होता है ऐमा प्रयोग होता है । नदुक्तमिनिरस्यमानतेति । रसमें रस्यमानता ( आस्वाद्यमानता ) मात्र सार होनेसे रस प्रकाश शरीर अर्थात् ज्ञानस्वरूपसे अन्य ( भिन्न ) नहीं है। अर्याद ज्ञानस्वरूप है। इसी प्रकार अन्यत्र भी ऐसे स्थलोंमें उपचारसे प्रयोग जानना चाहिए । ___ दूसरी आशङ्का करते हैं । नन्विति । "प्रकाशशरीरादनन्य एव रसः" इस उक्तिके अनुसार रसको ज्ञानस्वरूप मानते हैं तो वह अज्ञेय होगा क्योंकि जैसे घटज्ञान अपने विषय ( ज्ञेय ) घटसे अलग होता है। इस प्रकार रस भी ज्ञानस्वरूप है। व्यञ्जना=जिससे रसकी प्रतीति होती है और रस ये दोनों ज्ञानविशेष हो गये तो दोनोंकी एकता हो जायगी तब तो-स्वज्ञानेनेति। जो अपना ज्ञान कराकर दूसरेका ज्ञान कराता है वह सिद्ध पदार्थमें (न कि साध्य पदार्थ में) व्यञ्जक (ज्ञापक) हेतु कहलाता
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy