SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः ८७ 'रसे' सारश्चमत्कारः सर्वत्राऽप्यनुभूयते । तधमत्कारसारत्वे सर्वत्राऽप्यद्भुतो रसः। तस्मादद्भुतमेवाह कृती नारायणो रसम्' ।। इति । कैश्चिदिति प्राक्तनपुण्यशालिभिः । यदुक्तम् 'पुण्यवन्तः प्रमिण्वन्ति योगिवद्रससन्ततिम्' । इति । यद्यपि 'स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भवः' इत्युक्तदिशा रसस्यास्वादानतिरिक्तत्वम्, तथापि 'रसः स्वाद्यते' इति काल्पनिक पर्याय: = विस्मयाऽन्यसमानार्थकः । तत्प्राणत्वं = चमत्कारप्राणत्वम् । रस इति । तच्चमत्कारसारत्वे = तस्य ( रसस्य ) चमत्कारसारत्वे ( चमत्कारस्थिरांऽशत्वे ) सर्वत्र अनुभूतो रसः । चमत्कार एव सर्वरसप्राणभूत इति भावः। __ - पुण्यवन्त इति । पुण्यवन्तः सुकृतिनः, योगिवत् रससम्मति-शृङ्गारादिरसपरम्परां, प्रमिग्वन्ति--साक्षात्कुर्वन्ति । यथा योगिनः शुद्धं ब्रह्म स्वप्रकाशानन्दचिद्रूपतया साक्षात्कुर्वन्ति तथा पुण्यवन्तो रत्याद्यशकर्बुरितमपि रसमास्वादयन्तीति भावः । यद्यपीति । काव्याऽर्थसंभेदात् = काव्याऽर्थस्य ( विभावादेः ) संभेदात् (परिशीलनात ); "संभेवात्" इत्यत्र ल्यब्लोपे पञ्चमी । काव्याऽर्थसंभेदं कृत्वा, तेन विभावादिसंवलित इत्यर्थः; एतादृशः आत्माऽऽनन्दसमुद्भेदः = आत्मनि (स्वस्मिन् ) आनन्दसमुद्भवः, स्वादः आस्वादः । इत्युक्तदिशा, रसस्य आस्वादानतिरिक्तत्वम् = मास्वा: दरूपत्वमिति भावः । तथापि "रसः स्गद्यते" इति काल्पनिकभेदम् = औपचारिकभेदम् "राहोः शिर" इतिवदिति भावः । उररीकृत्य = अङ्गीकृत्य, वा = अथवा, कर्मकर्तरि, "कर्मवत्कर्मणा तुल्यक्रियः" इति सूत्रेण "ओदनः पच्यते" इतिवद् "रसः स्वाद्यते" = स्वयमेव आस्वाद्यते एतादृशः प्रयोगः । है-रस इति । रसमें सार चमत्कार है इस बातका सर्वत्र अनुभव किया जाता है। इसमें चमत्कार ही सार होता है इसलिए सर्वत्र ही अद्भुत रस होता है । उस कारणसे विद्वान नारायणने रसको अद्भुत ही कहा है। "कैश्चित्" इसका अर्थ है प्राचीन पुण्योंसे शोभित जनोंसे । जैसे कि कहा गया है-पुण्यवन्त इति ! पुण्यात्मालोग योगियोंके समान शृङ्गार आदि रसोंकी परम्प का साक्षात्कार करते हैं । जैसे योगी शुद्ध ब्रह्मको स्वप्रकाश आनन्द चैतन्यरूपतासे साक्षात्कार करते हैं उसी प्रकार पुण्यात्मा लोग रति आदिसे चित्रित रसका आस्वादन करते हैं यह भाव है। यद्यपीति । यद्यपि काव्याऽर्थ ( विभाव आदि ) परिशीलनसे अपनेमें आनन्द की उत्पत्ति को "स्वाद" कहते हैं ऐसी उक्ति के अनुसार रस आस्वादसे अतिरिक्त नहीं है अर्थात् आस्वादस्वरूप ही है तथाऽपि "रसः स्वाद्यते" अर्थात रस आस्वादन किया जाता है ऐसा काल्पनिक भेदको स्वीकार कर वा कर्मकर्ता में रसः स्वाद्यते = स्वयमेव
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy