________________
साहित्यदर्पणे
'रजस्तमोभ्यामस्पृष्टं मनः सत्त्वमिहोच्यते' इत्युक्तप्रकारो बाह्यमेयविमुखतापादकः कश्चनान्तरो धर्मः सत्त्वम् । तस्योद्रेको रजस्तमसी अभिभूय आविर्भावः । अत्र च हेतुस्तथाविधालौकिककाव्यार्थपरिशीलनम्।
अखण्ड इत्येक एवायं विभावादिरत्यादिप्रकाशसुखचमत्कारात्मकः । अत्र हेतुं पक्ष्यामः । स्वप्रकाशत्वाचपि वक्ष्यमाणरीत्या। चिन्मय इति स्वरूपार्थे मयट ।
चमत्कारश्चित्तविस्ताररूपो विस्मयापरपर्यायः । तत्प्राणत्वश्चास्मद्वद्धप्रपितामहसहृदयगोष्ठीगरिष्ठकविपण्डितमुख्यश्रीमन्नारायणपादरुक्तम् । तदाह धर्मदत्तः स्वप्रन्थे
विवृणोति- रजस्तमोभ्यामिति । रजस्तमोभ्यां = रजस्तमोगुणाभ्याम; अस्पृष्टं सम्परहितं, मनः, सत्त्वम् उच्यते । अयं भावः । "सत्त्वं सुखे रञ्जयति" इति भगववेचनात, त्रिगुणात्मके मनसि यदा सस्वस्याऽधिक्यं भवति तदा सुखोत्पत्तिः । इत्युक्तप्रकार:= इत्यभिहितभेदः, बाह्ममेयविमुखताऽऽपादकः = घटपटादयो ये बाह्यपदार्थाः, तेषु पराङ्मुखत्वप्रयोजकः, कश्मन आन्तरः = अन्तर्वर्ती, धर्मः= गुणः, सत्त्वम् । तस्य उद्रेकः = रजस्तमसी । अभिभूय = स्वकार्यासमर्थ कृत्वा, आविर्भाव: प्रादुर्भावः । तत्र च हेतु: कारणं, तथाविधाऽलोकिककाव्याऽर्थपरिशीलनं-तथाविधानि (तादशानि) अलोकिकानि ( लोकोत्तराणि ) यानि (काव्यानि ) तेषामर्थाः; (विभावादयः ) तेषां परिशीलनम् ( निरन्तरमभ्यसनम् )। अखण्ड इति विभावादिरत्यादिप्रकाश. सुखचमत्कारात्मकः = विभावादीनां (भावानाम् ) रत्यादीना (स्थायिभावानाम् ) ये प्रकाशसुखचमत्कारा: ( ज्ञानानन्दविस्मयाः ) तदात्मकः (तत्स्वरूपः ) । वक्ष्यामःकथयिष्यामः । चिन्मयः = चिदेव, "तत्प्रकृतवचने मयट्" इति स्वरूपाऽर्थ मयट् । चमत्कारः, चित्तविस्ताररूप: = चित्तप्रसारस्वरूपः, आनन्दोत्पत्तिः, विस्मयाऽपर.
ग्रन्थकार ही कारिकाओंका विवरण करते हैं। "रजस्तमोम्यामिति"। रजोगुण और तमोगुणसे अस्पृष्ट मनको “सत्त्व' कहते हैं, ऐसी उक्ति के अनुसार घट पट आदि वाह्य पदार्थोसे विमुख करनेवाला कोई अन्तःकरणका धर्म "सत्त्व" कहा जाता है। उसका उद्रेक रजोगुण और तमोगुणको दबाकर प्रादुर्भाव होना है । उसका हेतु है वैसे अलौकिक काव्योंके अर्थ विभाव आदिका परिशीलन । “अखण्ड" कहनेसे विभाव आदि भावोंका और रति आदि स्थायी भावोंका प्रकाश, सुख और चमत्कारस्तरूप वह एक ही है । इसमें हेतुको पीछे कहेंगे । स्वप्रकाशस्य आदि पीछे कही जाने वाली रीतिसे जानना। "चिन्मय" यहाँ पर स्वरूप अर्थमें मयट् प्रत्यय हुआ है। चित्तविस्तारको "चमत्कार" कहते हैं, इसका पर्याय ( समानाऽर्थक शब्द ) “विस्मय" है। रसमें चमत्कार ही प्राण है इस बात को हमारे वृद्ध प्रपितामहके सहृदय विद्वानोंकी सभाके श्रेष्ठ कवि और पण्डित श्रीनारायणजी ने कहा है। इस बात को धर्मदत्तने अपने ग्रन्थ में कहा