SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः अथ कोऽयं रस इत्युच्यते १ ॥ विभावेनानुभावेन व्यक्तः संचारिणा तथा । रमतामेति रत्यादिः स्थायी भावः सचेतसाम् ॥ विभावादयो वक्ष्यन्ते । सात्त्विकावानुभावरूपत्वात् न पृथगुक्ताः, व्यको दध्यादिन्यायेन रूपान्तरपरिणतो व्यक्तीकृत एव रसो न तु दीपेन घट पूर्वसिद्धो व्यज्यते । "वाक्यं रसात्मकं काव्य" मित्युक्तत्वाद्रसस्य प्राप्ताऽवसरत्वं दर्शयति प्रथेति । अथ = वाक्यस्वरूपनिरूपणाऽनन्तरम्, कोऽयं रस इति = अपेक्षायाम्, उच्यते = रसस्त्ररूपं निरूप्यते । रसं लक्षयति विभावेनेति । विभावेन अनुभावेन तथा संचारिणा व्यक्तः सचेतसां रत्यादिः स्थायी भावः रसताम् एति इत्यन्वयः । विभावेन = रत्यादेरालम्बनोद्दीपनाख्य कारणद्वयेन, अनुभावेन = तत्कायेंण, तथा = तेन प्रकारेण, संचारिणा = व्यभिचारिणा, निर्वेदादिरूपेणेत्यर्थः । व्यक्तः = अञ्जनावृत्या प्रतिपादितः सचेतसां सहृदयानाम् । रत्यादिः = रतिहासप्रभृतिः स्थायी भावः रसतां = रसस्वरूपताम् एति = प्राप्नोति । विवृणोति - विभावादय: = विभावानुभावव्यभिचारिरत्यादयः, वक्ष्यन्ते = कथयिष्यन्ते, अस्मिनेव परिच्छेद इति शेषः । सामान्यतस्तु - "कारणानि च कार्याणि सहकारीणि यानि च । रत्यादेः स्थायिनो लोके तानि चेन्नाटचकाव्ययोः ॥ विभावा अनुभावाश्च कथ्यन्ते व्यभिचारिणः । " = इत्युक्तप्रकाराः । सास्विकाञ्च स्तम्भस्वेदादयोऽष्टविधाः । अनुभावरूपत्वात् न पृथक् उक्ताः = अभिहिताः । व्यक्तः = दध्यादिन्यायेन यथा दुग्धं दधिरूपेण परिण: मति तथैव व्यक्तकृत इत्यर्थः । आदिपदेन प्रपाणकादिपरिग्रहः । तथा च विभावादिरेव दध्यादिन्यायेन रूपान्तरपरिणतः सन् रसपदेन व्यवह्नियत इति भावः । न तु दीपेन घट अब रस क्या है ? ऐसा प्रश्न कर उसका निरूपण करते हैं । विभावेन । विभाव (आलम्बन और उद्दीपन ) अनुभाव और सवारीभावसे व्यञ्जना वृति से अभिव्यक्त सहृदयोंके हृदय में विद्यमान रति आदि स्थायी भाव रसके स्वरूप में परिणत होता है ॥ १ ॥ 4 विभाव आदि पीछे कहे जायेंगे । स्तम्भ स्नेह आदि अठ सात्विक भाव अनुभाव अन्तर्भूत होनेसे पृथक नहीं कहे गये । "व्यक्त" कहने से जैसे दूध ही दूसरे रूपमें
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy