________________
८२
.
साहित्यदर्पणे
बोधिका तात्पर्य नाम वृत्तिः । तदर्थश्च तात्पर्यार्थः। तद्बोधकं च वाक्यमित्यमित्यभिहितान्वयवादिनां मतम् । " इति श्रीमन्नारायणचरणारविन्दमधुव्रत-साहित्यार्णवकर्णधार-ध्वनिप्रस्थापनपरमाचार्य-कविसूक्तिरत्नाकराऽष्टादशभाषावारविलासिनीभुजङ्ग सान्धि. विहिक-महापात्र-श्रीविश्वनाथकविराजकृती साहित्यदर्पणे
काव्यस्वरूपनिरूपणो नाम द्वितीयः परिच्छेदः ।
इति नयेनेति भावः । वाक्यार्थरूपस्य = पदार्थान्वयस्य, बोधिका = प्रतिपादिका, तात्पर्य नाम वृत्तिः = शक्तिः । तदर्थश्च = तात्पर्यवत्यर्थश्च तात्पर्यार्थः । तद्बोधकं च = तात्पर्याऽर्थबोधकं च, वाक्यमिनि अभिहिताऽन्वयवादिनां मतम् ।
अयं भावः । घटं करोति इत्यादिवाक्ये अभिधा घटपदेन कम्बुग्रीवादिमन्तं पदार्थम्, अम् विभक्त्या कर्मत्वमभिधाय विरमति वृत्तिता तु न कस्याऽपि इति अपदार्थोऽपि वृत्तिता तात्पर्यवृत्तिवशात् अनयोः संसर्गविधया भासते। इत्थं तात्पर्यवृत्त्येव पदार्थानां मिथः अन्वयो भवतीति अभिहितान्वयवादिनः ।
'अन्विताऽभिधानवादिना प्रभाकरमीमांसकानां मते तु पदार्थसंसर्गस्य पदशक्यस्वाङ्गीकारेण तात्पर्यवृत्तिर्नावश्यकी । . इति साहित्यर्पणे चन्द्रकलाख्यायां व्याख्यायां द्वितीयः परिच्छेद इति ।
और उसका बोधक वाक्य होता है यह अभिहिताऽन्वयवादियोंका सिद्धान्त है । अभिहि ताऽन्वयवादी भाट्टमीमांसक हैं उनका मत अलङ्कारशास्त्रमें स्वीकृत है। .
अन्विताभिधानवादी प्रभाकर मीमांसकके मतमें पदार्थीका अन्वय स्वतः होता है उसके लिए तात्पर्य वृत्तिको मानना अनावश्यक है।
साहित्यदर्पणके अनुवादमें द्वितीय परिच्छेद समाप्त हुआ।