SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे यथा--' उअ पिच्चट -' इत्यादि । प्रकृतिप्रत्ययादिव्यव्जकत्वं तु प्रपच यिष्यते । ८० शब्दबोध्यो व्यनक्त्यर्थः शब्दोऽप्यर्थान्तराश्रयः । एकस्य व्यञ्जकत्वे तदन्यस्य सहकारिता ॥ १८ ॥ यतः शब्दो व्यव्जकत्वेऽप्यर्थान्तरमपेक्षते, अर्थोऽपि शब्दम्, तदेकस्य व्यञ्जकत्वेऽन्यस्य सहकारितावश्यमङ्गीकर्तव्या । इत्यादि, व्यङ्गघार्थस्य जयञ्जनाप्रतिपाद्यार्थस्य व्यञ्जना उअ णिच्चल इत्यादि । प्रकृतिप्रत्ययादिव्यञ्जकत्वं = प्रकृति: ( यतः प्रत्ययोत्पत्तिः), धातुप्रातिपदिकादिरूपा इत्यर्थः । प्रत्ययः ( सुप्तिकृत्तद्धितादिरूपः ), तदादिव्यञ्जकत्वं तदादीनां व्यञ्जनया बोधकत्व तु, प्रपचयिष्यते विस्तारयिष्यते, असंलक्ष्यक्रमव्यङ्गयध्वन्युदाहरण इति भावः । व्वञ्जकत्वे शब्दाऽथं योमिथः सहकारितां प्रतिपादयति शब्दबोध्य इति । अर्थः शब्दबोध्यः व्यनक्ति, शब्दोऽपि अर्थान्तराश्रयो व्यनक्ति । तत् एकस्य व्यञ्जकत्वे अन्यस्य सहकारिता इत्यन्वयः । अर्थः = वाच्यः, शब्दबोध्यः = शब्दप्रतिपाद्यः सन्, व्यनक्ति = व्यङ्गार्थं प्रतिपादयति, तथैव शब्दोऽपि = वाचकोऽपि अर्थान्तराश्रयः = अभ्याऽथपस्थापक: सन्, व्यनक्ति = व्यङ्गयाऽयं प्रतिपादयति, तत् = तस्मात्कारणात् शब्दार्थयोः एकस्य एकतरस्य, व्यञ्जकत्वे व्यञ्जनोपाधिकत्वे सति, अन्यस्य = शब्दाऽर्थयोरन्यतरस्य, सहकारिता = अप्रधानकारणता, भवतीतिशेषः ॥ १८ ॥ विवृणोति - यत इति । यतः यस्मात्कारणात् शब्दः = वाचकः, व्यञ्जकत्वे= अञ्जनोपाधिकत्वे सति, अर्थान्तरम् = अन्यमर्थम् = अपेक्षते = सहकारित्वेन अपेक्षां करोति । तथैव अर्थोऽपि = वाच्योऽपि व्यञ्जकत्वे = सति, शब्द = वाचकम्, अपेक्षते= सहकारित्वेन अपेक्षां करोति । तत् तस्मात्कारणात् एकस्य = शब्दाऽर्थयोरेकतरस्य, व्यञ्जकत्वे अन्यस्य = शब्दाऽर्थयोरन्यतस्य, सहकारिता = अप्रधानकारणता अवश्यम् अङ्गीकार्या= स्वीकार्या, परन्तु यत्र शब्दार्थयोर्मध्ये यस्य शक्तिः प्रधानरूपा, तत्र तन्मूलो व्यञ्जकत्वव्यवहारः कर्तव्य इति भावः ॥ व्यञ्जना--" उअ णिच्चन" इत्यादि । प्रकृति और प्रत्यय आदिकी व्यञ्जकता का पीछे विस्तार करेंगे । अर्थ, शब्दसे बोध्य होकर व्यञ्जक होता है, उसी तरह शब्दभी दूसरे अर्थका आश्रय लेकर व्यञ्जक होता है, अतः जहाँ एक शब्द वा अर्थ व्यञ्जक होता है वहा दूसरा यथाक्रम अर्थ वा शब्द सहकारी होता है ॥ १८ ॥ क्योंकि शब्द व्यञ्जक होनेपर अर्थकी अपेक्षा करता है उसी तरह अर्थ भी व्यञ्जक होनेपर शब्दकी अपेक्षा करता है, इस कारणसे एककी व्यञ्जकता में दूसरे की सहकारिताको अवश्य मानना चाहिए। .
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy