SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे 'गङ्गायां घोषः' इत्यादौ जलमयाद्यर्थबोधनादभिधायां तटाद्यर्थबोधनाच्च लक्षणायां विरतायां यया शीतत्वपावनत्वाद्यतिशयादिर्बोध्यते सा लक्षणामूला व्यञ्जना। एवं शाब्दी व्यन्जनामुक्त्वाऽऽर्थीमाह वक्तृवोद्धव्यवाक्यानामन्यसंनिधिवाच्ययोः । प्रस्तावदेशकालानां काकोश्चेष्टादिकस्य च ।। १६ ॥ वैशिष्ट्यादन्यमर्थ या बोधयेत्साऽर्थसंभवा । व्यन्जनेति सम्बन्ध्यते। तत्र वक्तृवाक्यप्रस्तावदेशकालवैशिष्टये यथा मम--- 'कालो मधुः, कुपित एष च पुष्पधन्वा, धीरा वहन्ति रतिखेदहराः समीराः । विवणोति-"गङ्गायां धोष" इति । विरताया=निवृत्तायाम् । स्पष्टमन्यत् । आर्थी व्यञ्जनां लक्षयति-वक्तबोद्धव्यवाक्यानामिति । वक्तृबोद्धव्यवाक्यानां वक्ता ( प्रतिपादक: ) बोद्धव्यः ( प्रतिपाद्यः ), वाक्यं (पदसमूहः ), तेषां, वैशिष्ट्यात इत्यत्र सम्बन्धः । एवमन्यत्राऽपि । अन्यसन्निधि. नाच्ययोः = भन्यसनिधि: ( अपरसन्निधानं ) वाच्यः ( अर्थः), तयोः वैशिष्टयात् । प्रस्तावदेशकालाना = प्रस्ताव (प्रकरणं) देशः ( स्थानम् ) काल: ( समयः ), तेषां वैशिष्ट्यात् । काको: ध्वनिविकारस्य, चेष्टादिकस्य च, वैशिष्टयात-वैलक्षण्यात्, यावृत्तिः, अन्यम् = अपरं प्राचीनवाच्यादिविलक्षणम्, अर्थ, बोधयेत् = प्रतिपादयेत, सा अर्थसम्भवा = आर्थी. व्यसनेति सम्बद्धयते ॥ १६ ॥ तत्र वक्तृवाक्य प्रस्ताव-देश-कालवैशिष्ट्ये यया मम काल इति। काल: समयः, मधुः = वसन्तः, एषः = अनुभूयमानः, पुष्पधन्वा च = कामश्च कुपितः = क्रुद्धः । धीराः = मन्दा:, अत: रतिखेदहराः = रमणपरिश्रमहरणशीलाः, समीरा: = वाताः, गङ्गायां घोषः" इत्यादि स्थलमें जन्मय आदि अर्थका बोधन कर अभिधाके निवृत्त होनेपर और तट आदि अर्थका बोधन कर लक्षणाके निवृत्त होनेपर जिस वृत्तिसे शीतलत्व और पावनत्व आदिके आधिक्य आदिका बोध होता है उसे "लक्षणामूला" व्यञ्जना कहते हैं। इस प्रकार शाब्दी व्यञ्जनाका प्रतिपादन कर आर्थी व्यञ्जना कहते हैंबक्तबोद्धव्यति। वक्ता, बोद्धव्य, वाक्य, अन्यका सामीप्य, वाच्य ( अर्थ ) प्रस्ताव (प्रकरण) देश, काल, काकु (ध्वनिविकार ), और चेष्टा आदि इनकी विशेषतासे जो शक्ति अन्य अर्थका बोधन करती है उसे “आर्थी व्यञ्जना" कहते हैं ॥ १६ ॥ उनमें वक्ता, वाक्य, प्रस्ताव, देश, और काल इनकी विशेषतामें जैसे ग्रन्याकारका पद्य-"कालो मधुः"कोई नायिका अपनी सखीको कहती है। वसन्त ऋतुका समय है । यह कामदेव कुपित है। रतिक्रीडाके परिश्रमको हटानेवाली गम्भीर हवा
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy