________________
द्वितीयः परिच्छेदः
अत्र प्रकरणेनाभिधया उमावल्लभशब्दस्योमानाम्नीमहादेवीवल्लभभानुदेवनृपतिरूपेऽर्थे नियन्त्रिते व्यञ्जनयव गौरीघल्लभरूपोऽर्थो बोध्यते। एवमन्यत् ।
लक्षणामूलामाह
लक्षणोपास्यते यस्य कृते तत्तु प्रयोजनम् ।
यया प्रत्याय्यते सा स्याद्वयञ्जना लक्षणाश्रया ॥ १५ ॥ विवृणोति । अत्र अस्मिन् पद्य, प्रकरणेन = प्रस्तावेन, उमावल्लभणब्दस्य = उमावल्लभपदस्य, उमा नाम, महादेवी = कृताभिषेका महाराजी, तबल्लभभानुदेवनपतिरूपेऽर्थे अभिधया, नियन्त्रिते सति = नियमिते सति । व्यञ्जनया एव अप्रकृतों गोरीवल्लभरूपोऽर्थो बोध्यते । ततश्च महेश्वरभानुदेवयोरुपमानोपमेयभावः कल्प्यते, तेन उमावल्लभ इवेत्युपमाध्वनियंजनयव बोध्यते ।
___"व्यञ्जनया एव" इत्यत्र एवकारस्य अयमभिप्रायः । इह खलु उमावल्लमशन्दे येयं द्वितीयाऽर्थप्रतीतिः, तत्र अभिधायाः प्रकृताऽर्थमात्रबोधनेन विरामात्, लक्षाणायाश्च मुख्याऽर्थबाधहेतुकत्वात्, तात्पर्यवृत्तेरपि पदार्थमिथःसंसर्गमात्रबोधननयत्यात् विरामात व्यम्कानावृत्या एव अप्रकृताऽर्थप्रतीत्या उपमाध्वनिरिति भावः ।।
एवमन्यत् । लक्षणामूला व्यञ्जना प्रतिपादयति-लक्षणेति । यस्य कृते लक्षणा उपास्यते, तत् प्रयोजनं यया प्रत्याय्गते; सा तु लक्षणाऽऽश्रया व्यञ्जना इत्यन्वयः ।
यस्थ-प्रयोजनस्य, कृते = निमित्त, लक्षणा = तदाख्या वृत्तिः, उपास्यते = आद्रियते, सत् प्रयोजनं, यया = वृत्या, प्रत्याय्यते = बोध्यते । सा तु लक्षणाऽश्रया = लक्षणामूला, व्यञ्जना इत्यर्थः ।। १५ ।। राजा शोमित हो रहे हैं। यहाँपर प्रकरणसे उमावल्लभ शब्दका उमा नामको महारानीके वल्लभ ( प्रिय ) भानुदेव नामके राजा ऐसा अर्थ नियन्त्रित होनेपर व्यञ्जनासे ही उमा अर्थात् गौरी ( पार्वती ) के वल्लभ (प्रिय ) महादेव ऐसा अर्थ समझा जाता है । जैसे कि-उमा अर्थात् पार्वतीसे लङ्कित भर्थात् आलिङ्गनसे आक्रान्त शरीरवाले, तेजसे कामदेवको भस्म करनेवाले, शिरमें चन्द्रकलासे शोभित, गुरुत्व(जगद्गुरुत्व) को ग्रहण करनेवाले, साँसे घिरे हुए, चन्द्रको नेत्र बनानेवाले, कैलास पर्वतमें दृढ़ प्रीति रखनेवाले, बैलपर आरूढ और भस्मसे भूषित शरीरवाले उमावल्लभ अर्थात् पार्वतीके प्रिय शङ्कर शोभित होते हैं इसी तरह और उदाहरण भी जानना चाहिए।
अभिधामूला व्यञ्जनाका वर्णन हुआ, अब लक्षणामूला व्यञ्जनाको कहते हैं। लक्षणोपास्यते इति । लक्षणा जिसके लिए की जाती है वह प्रयोजन जिस वृत्तिसे प्रतीत होता है उसे लक्षणामूला व्यञ्जना कहते हैं ।। १५ ॥